पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
342
[९ आध, १ अध्या
अभियास्यत्कर्म -

414 2 "शक्त्युदये यातव्यमनैकान्तिकत्वात् व्यसनानाम्" इति कौटिल्यः ।।

 यदा वा प्रयातः कर्शयितुमुच्छेत्तुं वा शक्नुयादामित्रं, तदा यायात् ॥

 अत्युष्णोपक्षीणे काले हस्तिबलप्रायो यायात् हस्तिनो ह्यन्तस्स्वेदाः कुष्टिनो भवन्ति ;-अनवगाहमानास्तोयमपिब न्तश्चान्तरपक्षाराः चण्डीभवन्ति । तस्मात् प्रभूतोदके देशे, वर्षति च हस्तिवलपायो यायात् । विपर्यये खरोष्ट्राश्वबल- प्रायः देशमल्पवर्षपङ्कम् । वर्षति मरुपायं चतुरङ्गवलो यायात्। समविषमनिम्नस्थलह्रस्वदीर्घवशेन बाऽध्वनो यात्रां विभजेत् ।

सर्वा वा ह्रस्वकालास्स्युर्यातव्याः कार्यलाघवात् ।
दीर्घाः कार्यगुरुत्वाद्वा वर्षावासः परत्र च ।।

इत्याभियास्यत्कर्मणि नवमेऽधिकरणे शक्तिदेशकाल- बलाबलज्ञानं यात्राकालाः प्रथमोध्यायः आदितो द्वाविंशशतोऽध्यायः


१३७.१३९ प्रक. बलोपदानकालाः, सन्ना- हगुणाः, प्रतिबलकर्म च.


मौलभृतकश्रेणीमित्रामित्राटवीबलानां समुद्दानकालाः । मूलरक्षणादतिरिक्ंत मौलबलम् “अत्यावापयुक्ता वा मौ- ला मूले विकुर्वीरन्" इति “बहुलानुरक्तमौलबलः सारबलो


12. रवक्षाराचण्डीभवन्ति, रवक्षाराचान्धीभवान्त.