पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७-१६९ प्रक.]
343
बलोपधानकाला , सन्नाहगुणा, प्रतिवलकर्म च

वा मतियोद्धा व्यायामेन योद्धव्यम्" इति, "प्रकृष्टेऽध्वनि काले 4152 वा क्षयव्ययसहत्वान्मौलानाम्" इति "बहुलानुरक्तसम्पादिते च यातव्यस्योपजापभयादन्यसैन्यानां भृतादीनामावश्वासे, बल क्षये वा सर्वसैन्यानाम्" इति मौलबलकालः ॥

 “प्रभूतं मे भृतबलमल्पं च मौलवलम्" इति; "परस्याल्प विरक्त वा मौलबलं, फल्गुप्रायमसारं वा भृतसैन्यम्" इति: "मन्त्रेण योद्धव्यमल्पव्यायामेन इति "ह्रस्वो देशः कालो वा तनुक्षयव्ययः" इति " अल्पस्वाषं शान्तोपजापमविश्वस्तं' वा मे सैन्यम्" इति "परस्याल्पः प्रसारो हन्तव्यः" इति मृतबलकालः ॥

 "प्रभूतं मे श्रेणीवलं शक्यं मूले यात्रायां चाधातुम्" इति, "हृस्वः प्रवासः श्रेणीबलप्राय प्रतियोद्धा मन्त्रव्यायामा- म्यां प्रतियोद्धुकामो दण्डबलव्यवहारः" इति श्रेणीबलकालः ॥

 "प्रभूतं मे मित्रबलं शक्यं मूले यात्रायां चाधातुमल्पः प्रवासो मन्त्रयुद्धाच्च भूयो व्यायामयुद्धम्” इति ; "मित्रबलेन वा पूर्वमटवीनगरीस्थानमासारं वा योधयित्वा पश्चात् स्वबलेन योधयिष्यामि, मित्रसाधारणं वा मे कार्यं, मित्रायत्ता वा मे कार्यसिद्धिः, आसन्नमनुग्राह्यं वा मे मित्रमत्यावापं वाऽस्य साधयिष्यामि " इति मित्रवलकालः ॥

 “प्रभूतं मे शत्रुवलं शत्रुबलेन योधयिष्यामि, नगरस्थान- 4162


1 जाप विश्वस्त, 2 सादयिष्यामि.