पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३७-२३९ प्रक.] बलोपदानकाला , सन्नाहगुणाः, प्रतिघलकर्म च 345 जानपदमेकार्थोपगतंतुल्यसङ्घर्षामर्षसिद्धिलाभंच श्रेणीबलंमि- 4177 त्रबलाच्छ्रेयः, अपरिमितदेशकालमेकार्थोपगमाच्च मित्रबलाच्छ्रेयः । आर्याधिष्ठितममित्रबलमटवीबलाच्छ्रेयः। तदुभयं विलोपा. र्थम्। अविलोपे व्यसने च ताभ्यामहिमयं स्यात् ।। __ "ब्राह्मणक्षत्रियवैश्यशूद्रसैन्यानां तेजःप्राधान्यात् पूर्वंपूर्वं श्रेयस्संनाहयितुम्" इत्याचार्याः ॥ नेति कौटिल्य:-प्राणिपातेन ब्राह्मवलं परोऽभिहारयेता प्रहरण- विद्याविनीतं तु क्षत्रियबलं श्रेयः ; बहुलसारं वा वैश्यशूद्रबलमिति।। तस्मादेवंबलः परः "तस्यैतत्प्रतिबलम्" इति बलसमुद्दानं कुर्यात्-हस्तियन्त्रशकटगर्भकुन्तप्रासखर्वटकवेणुशल्यवद्धस्तिब- लस्य प्रतिबलम् ॥ तदेव पाषाणलगुडावरणाङ्कुशकचग्रहणीप्रायं रथबलस्य प्रति- 4187 बलम्।। तदेवाश्वानां प्रतिवलं, वर्मिणो वा हस्तिनोऽश्वा वा वर्मिणः।। कवचिनो रथा आवरणिनः पत्तयश्चतुरङ्गबलस्य प्रतिबलम् ॥ एवं बलसमुद्दानं परसैन्यनिवारणम् । विभवेन स्वसैन्यानां कुर्यादङ्गविकल्पशः ।। इत्यभियास्यत्कर्मणि नवमेऽधिकरणे बलापदान- कालास्सन्नाहगुणाः प्रतिबलकर्म द्वितीयोऽध्याय. आदितस्त्रयोविंशशतोध्यायः. 1 मित्रबलममित्रबलाच्छ्य । ट.