पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४०-१४१ प्रक.] पश्चात्कोपचिन्ता, बाह्याभ्यन्तरप्रकृतिकोपप्रतीकारश्च 347 येत् । उत्साहाभावे गृहीतानुवर्तनसन्धिकर्मभ्यामरिसन्धानभ- 420*1 यादन्येभ्यस्तद्विवेभ्यो वा भूमिदानैर्विश्वासयेदेनं ; तद्विशिष्टं स्वयंग्राहं दण्डं वा प्रेषयेत् । सामन्ताटविकान्वा तैविगृहीत- मतिसंदध्यात् । अवरुद्धादानं पारग्रामिकं वा योगमाति ष्ठेत्।- एतेन मन्त्रिसेनापती व्याख्यातौ ।। मन्त्रयादिवर्जानामन्तरमात्यानामन्यतरकोपोऽन्तरमासकोपः तत्रापि यथार्हमुपायान् प्रयुञ्जीत ॥ राष्ट्रमुख्यान्तपालाटविकदण्डोपनतानामन्यतमकोपो बाह्यको- पः तमन्योन्येनावग्राहयेत् । अतिदुर्गप्रतिस्तब्धं वा सामन्ता. टविकतत्कुलीनावरुद्धानामन्यतमेनावग्राहयेत्। मित्रेणापग्राहयेद्वा। यथा नामित्रं गच्छत् ॥ ___ अमित्रात्सत्री भेदयेदेनं " अयं त्वां योगपुरुष मन्यमानो भर्तर्येव विक्रमयिष्यति; अवाप्तार्थो दण्डचारिणममित्राटविकेषु 420 3 कृच्छ्रे वा प्रवासे योक्ष्यति ; विपुत्रदारमन्ते वा वासयिष्यति । प्रतिहतविक्रमं त्वां भर्तरि पण्यं करिष्यति । त्वया वा सन्धिं कृत्वा भर्तारमेव प्रसादयिष्यति; मित्रमुपकृष्टं वाऽस्य . गच्छेत्” इति प्रतिपन्नमिष्टाभिप्रायैः पूजयेत्। अप्रतिपन्नस्य संश्रयं "भेदोऽसौ ते योगपुरुषप्रणिहितः” इति । सत्री चैनं अभिव्यक्तशासनैर्घातयेत् ; गूढपुरुषैर्वा सहप्रस्थायिनो वाऽस्य प्रवीरपुरुषान्यथाभिप्रायकरणेन वाहयेत्। तेन प्रणिहितान् मत्री 1 गच्छ सश्रय भेदयेत् “असौ ते योग पुरुष प्रणिहित.."