पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

348 आभयास्यत्कर्म ९ अधि. अध्या. 4211 ब्रूयादिति सिद्धिः । परस्य चैनान् कोपानुत्थापयेत् । आत्मन- श्च शमयेत् ॥ ___ यः कोपं कर्तुं शमयितुं वा शक्तः, तत्रोपजापः कार्यः; यस्सत्यसन्धः शक्तः, कर्मणि फलावाप्तौ चानुगृहीतुं विनि- पाते च त्रातुं तत्र प्रतिजापः कार्यः, तर्कयितव्यश्च- "कल्याणबुद्धिरुताहो शठः" इति ॥ ___ शठो हि बाह्योऽभ्यन्तरमेवमुपजपति-“भर्तारं चेद्धत्वा मां प्रतिपादयिष्यति, शत्रुवधो भूमिलाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनमाहनिष्यतीति । हतब. न्धुपक्षस्तुल्यदोषदण्डेन वा उद्विग्नश्च मे भूयात् । न कृत्य- पक्षो भविष्यति तद्विधे वाऽन्यस्मिन् आवशङ्कितो भविष्यति अन्यमन्यं चास्य मुख्यमाभिव्यक्तशासनेन घातायष्यामि" इति अभ्यन्तरो वा शठो वाह्यमेवमुपजपति---"कोशमस्य हरिष्यामि ; दण्डं वाऽस्य हनिष्यामि दुष्टं वा भर्तारमनेन घातायष्यामि ; प्रतिपन्नं बाह्यममित्राटाविकेषु विक्रमयिष्यामि चक्रमस्य सज्यतां वैरमस्य प्रसज्यतां , ततस्स्वाधीनो मे भवि- 491*5 ष्यति; ततो भर्तारमेव प्रसादयिष्यामि ; स्वयं वा राज्यं ग्रहीष्यामि ; बध्वा वा बाह्यभूमिं भर्तृभूमिं चोभयमवाप्स्यामि ; विरुद्धं वा वाहयित्वा वाह्यं विश्वस्तं घातयिष्यामि , शून्यं वाऽस्य मूलं हरिष्यामि" इति ॥ अपि शक्षितो.