पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

350 आभियास्यत्कर्म ९ अघि. ४ अध्या. 4:28 1 थानुसृतसारान् करिष्यामि ; प्रकृतीरस्य कर्शयिष्यामि; अपवाहयिष्याम्यायोगे नाराधायिष्यामि वा। ताः परः प्रयोगेण कोपयिष्यति, प्रतिपक्षे वाऽस्य पण्यमेनं करिष्यामि ; तदमित्रं विरक्तं तत्कुलीनं प्रतिपत्स्यते सत्कृत्य वाऽस्मै भूमिं दास्यामीति संहितसमुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयमपि लाभमाददीत ॥ इत्यादेयप्रत्यादेयो व्याख्यातौ॥ अधार्मिकाद्धार्मिकम्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति । विपरीतः प्रकोप इति ॥ मन्त्रिणामुपदेशाल्लाभो लभ्यमानः कोपको भवति, “अय- मस्माभिः क्षयव्ययो ग्राहितः” इति । दूष्यमन्त्रिणामना दराल्लाभो लभ्यमानः कोपको भवति, "सिद्धार्थोऽयमस्मान् विनाशयिष्यति" इति विपरितः प्रसादकः ॥ इति प्रसादकोपको व्याख्यातौ ॥ गमनमात्रसाध्यत्वादस्वकालः ॥ मन्त्रसाध्यत्वात्तनुक्षयः ॥ भक्तमात्रव्ययत्वादल्पव्ययः॥ तदात्ववैपुल्यान्महान् ॥ अर्थानुबन्धकत्वादृृद्धयुदयः॥ 4238 निराबाधकत्वात्कल्य' । 1.योगे पर मित्रमवरुद्ध वाऽस्य प्रतिसादायष्यामि । मित्रस्य स्वस्थ देशश्य पीडामत्रस्थस्तस्करभ्य परेभ्यश्च प्रतिकरिष्यामि । मित्रमाश्रय वाऽस्य वैगुण्य प्राहयिष्यामि । तदामंत्र. 4 प्रकोपक.