पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

352 अभियास्यत्कर्म ९ आधि. ५ अध्या. १४३ प्रक. बाह्याभ्यन्तराश्वापदः. 4248 सन्ध्यानामयतोद्देशावस्थापनमपनयः ॥ तस्मादापदस्संभवन्ति ॥ बाह्योत्पत्तिराभ्यन्तरप्रतिजापा, आभ्यन्तरोत्पत्तिर्बाह्यप्रति- जापा, बाह्योत्पत्तिर्बाह्यप्रतिजापा अभ्यन्तरोत्पत्तिरभ्यन्तरप्र- तिजापा इत्यापदः॥ यत्र बाह्या अभ्यन्तरानुपजपन्ति, अभ्यन्तरा वा बाह्यान् तत्रोभययोग प्रतिजपतः सिद्धिर्विशेषवती। सुव्याजा हि प्रति- जपितारो भवन्ति । नोपजपितारः । तेषु प्रशान्तेषु नान्यांच्छ- क्नुयुरुपजपितुमुपजपितार । कृच्छ्रोपजापा हि बाह्यानामभ्यन्त- रास्तेषामितरे वा महतश्च प्रयत्नस्य वधः परेषां अर्थानुबन्ध- श्वात्मन इति। ___ अभ्यन्तरेषु प्रतिजपत्सु सामदाने प्रयुञ्जीत । स्थानमा- नकर्म सान्त्वम् । अनुग्रहपरिहारौ कर्मस्वायोगो वा दानम् ॥ बाह्येषु प्रतिजपत्सु भेददण्डौ प्रयुञ्जीत ।सत्रिणो मित्रव्य- ञ्जना बाह्यानां चारमेषां ब्रूयू: “अयं वो राज दूष्यव्यञ्जनैर- तिसंघातुकामो बुध्यध्वम्” हति । दूष्येषु वा दूष्यव्यञ्जनाः प्रणिहिता दूष्यान् बाह्यैर्भेदयेयुः बाह्यान्वा दूष्यैः । दूष्यान- नुप्रविष्टा वा तीक्ष्णाश्शस्त्ररसाभ्यां हन्युः । आहूय वा बाह्यान् घातयेयुरिति ।। 495 5 यत्र बाह्या बाह्यानुपजपन्ति, अभ्यन्तरान् अभ्यन्तरा वा, I योगे. राजा.