पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८

पुटमेतत् सुपुष्टितम्
२ प्रक.]
11
इन्द्रियजयः

 श्रुताद्धि प्रज्ञोपजायते प्रज्ञया योगो योगादात्मत्तेति विद्यासामर्थ्यम् ॥

विद्याविनीतो राजा हि प्रजानां विनये रतः ।
अनन्यां पृथिवीं भुङ्के सर्वभूतहिते रतः ॥

इति विनयाधिकारिके प्रथमेधिकरणे
वृद्धसंयोगः पञ्चमोऽध्यायः


३. प्रक., इन्द्रियजयः.


 विद्याविनयहेतुरिन्द्रियजयः कामक्रोधलोभमानमदहर्षल्यागात्कार्यः । कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां शब्दस्पर्शरूपरस[१]गन्धेष्वविप्रतिपत्तिरिन्द्रियजयः शास्त्रार्थानुष्ठानं वा । कृत्स्नं हि शास्त्रमिदमिन्द्रियजयः ।

 तद्विरुद्धवृत्तिरवश्येन्द्रियश्चातुरन्तोऽपि राजा सद्यो विनश्यति--यथा दाण्डक्यो नाम भोजः कामात् ब्राह्मणकन्यामभिमन्यमानस्सबन्धुराष्ट्रो विननाश । करालश्च वैदेहः ।

कोपाज्जनमेजयो ब्राह्मणेषु विक्रान्तः, तालजङ्घश्च भृगुषु ।
लोभादैलश्चातुर्वर्ण्यमत्याहारयमाणः,सौवीरश्चाजबिन्दुः[२]
मानात् रावणः परदारानप्रयच्छन्, दुर्योधनो राज्यादंशं च ।
मदाड्डम्भोद्भवो भूतावमानी हैहयश्चार्जुनः ।

  1. स्पर्शरस.
  2. बिन्दुस्सौवीरश्चाजमा,