पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

356 अमियास्थत्कर्म ९ि आधि.: अध्या 429 1 वैदेहकव्यञ्जनाश्शत्रुमुख्येषु विक्रीणीरन् ततस्सत्रिणः परेषु ग्राहयेयुः-" एतत्पण्यमरिप्रदत्तम् " इति ॥ ___ महापराधानर्थमानाभ्यामुपगृह्य वा शस्त्ररसाग्निभिरमित्रेण प्रणिदध्यात। अथैकममात्यं निष्पातयेत् । तस्य पुत्रदारमुपगृह्य रात्रौ हतमिति ख्यापयेत् । अथामात्यः शत्रोस्तानेकैकशः प्ररूपयेत् । ते चेद्यथोक्तं कुर्युः न चैनान् ग्राहयेत् । अशक्ति- मतो वा ग्राहयेत् । आप्तभावोपगतो मुख्यादस्यात्मानं रक्ष- णीयं कथयेत्। अथामित्रशासनममुख्यायोपघाताय प्रेषित- मुभयवेतनो ग्राहयेत् ॥ उत्साहशक्तिमतो वा प्रेषयेत्-“ अमुष्य राज्यं गृहाण यथास्थितो नस्सन्धिः" इति । ततस्सत्रिणः परेषु ग्राहयेयुः एकस्य स्कन्धावारं विविधमासारं वा घातयेयुः । इतरेषु मैत्रीं ब्रुवाणा: "त्वमेतेषां पातयितव्यः” इत्युपजपेयुः ।। यस्य वा प्रवीरपुरुषो हस्ती हयो वा म्रियेत, गूढपुरुषैहन्येत ह्रीयेत वा, तं सत्रिणः परस्परोपहतं ब्रूयुः । ततः शासनमभि शस्तस्य प्रेषयेत् ---" भूयः कुरु तैः पणशेषमवाप्स्यसि" इति । तदुभयवेतना ग्राहयेयु. । भिन्नेष्वन्यतमं लभेत । 4301 तेन सेनापतिकुमारदण्डचारिणो व्याख्याताः ॥ साङ्घिकं च भेदं प्रयुञ्जीतेति भेदकर्म ।। तीक्ष्णं मूक्ता हीन' व्यसनिनं स्थित शत्रु वा गूढपुरुषाः शस्त्रा- ग्निरसादिभिस्साधयेयुः सौकर्यतो वा तेषामन्यतमः । तीक्ष्णो 1 तीक्ष्णमुत्साहिन. मन्यतमं.