पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ प्रक दूष्यशत्रुसयुक्ता 357 ह्येकः शस्त्ररसाग्निभिस्साधयेत् । अयं सर्वमंदोहकर्मविशिष्टं वा 480 3 करोतीत्युपायचतुर्वर्ग । पूर्वः पूर्वश्चास्य लघिष्ठ । “सान्त्वमेकगुणम् । दानं द्विगु- णं सान्त्वपूर्वम्। भेदस्त्रिगुण सान्त्वदानपूर्व । सान्त्वदण्डश्चतु- र्गुण' सान्त्वदानभेदपूर्व " इत्यभियुञ्जानेषूक्तम् । स्वभूमिष्ठेषु तु त एवोपाया । विशेषस्तु-स्वभूमिष्टानामन्यतम स्य पण्यागारैरभिज्ञातान् दूतमुख्यानभीक्ष्णं प्रेषयेत्, त एन सन्धौ परहिंसायां वा योजयेयुः । अप्रतिपाद्यमानं "कृतो नास्सिद्धिः" इत्यावेदयेयुः । तमितरेषामुभयवेतनास्संक्रामयेयु ---" अयं वो राजा दूष्ट " इति । यस्य वा यस्माद्भयं वैर द्वेषो वा, त तस्मा- द्भेदयेयु " अयं ते शत्रुणा संधत्ते; पुरा त्वामतिसंधत्ते क्षि- प्रतरं सन्धीयस्व , निग्रहे चात्य प्रयतस्व" इति । आवाह- विवाहाभ्यां वा कृत्वा संयोगमसंयुक्तान भेदयेत् । सामन्ताट- विकतत्कुलीनावरुद्धै श्चैषा राज्यान्निघातयेत् । सार्थप्रजाटवी- भिर्वा दण्ड वाऽभिसृतं परस्परापाश्रयाश्चैषां जातिसङ्घच्छिद्रेषु प्रहरेयुः । गूढाश्चाग्निरसशस्त्रेण ।। पीतं सगळवच्चारीन्योगैराचरितैश्शठम् । घातयेत्परमिश्रायां विश्वासेनामिषेण च ।। इत्यभियास्यत्कर्मणि दूष्यशत्रुसंयुक्ताष्षष्ठोऽध्यायः आदित सप्तविंशशत 4812 _1 नस्सन्धि , वैरं, जातिसङ्घाच्छिद्रेषु