पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४५-१४६ प्रक] अथानर्थसंशब्युक्तः , तामामुमायविकल्प जास्सद्धयश्च 359 Hanuman 4326 उदासीनस्य दण्डानुग्रह फलेन अर्थो निरनुबन्ध । परस्यान्तरुच्छेदनमर्थोऽनर्थानुबन्ध । शत्रुप्रतिवेशस्यानुग्रहः कोशदण्डाभ्यामनर्थोऽर्थानुवन्धः हीनशक्तिमुत्साह्य निवृत्तिरनर्थो निग्नुबन्ध । ज्यायांसमुत्थाप्य निवृत्तिरनर्थोऽनर्थानुबन्धः । तेषा पूर्व पूर्व श्रेयानुपसंप्राप्तुम् । इति कार्यावस्थापनम् । समन्ततो यु पदर्थोत्पत्तिस्समन्ततोऽर्थाद्भवति । सैव पार्ष्णिग्राहविगृहीता समन्ततोऽर्थसंशयापद्भवति । तयोर्मित्राक्रन्दोपग्रहात्सिद्धिः। समन्तत शत्रुभ्यो भयोत्पत्तिम्समन्ततोऽनर्थापद्भवति । सैव मित्रगृहीता समन्ततोऽनर्थसंशयापद्भवति । तयोश्चलामित्राक्रन्दोपग्रहात्सिद्धि । परमिश्राप्रतिकारो वा इतो लाभ इतरतो लाभ इत्युभयतो:- र्थापद्भवति । तस्यां समन्ततोऽर्थायां च लाभगुणयुक्तमर्थमादातुं यायात्। तुल्ये लाभगुणे प्रधानमासन्नमनातिपातन मूनोपायेन भवेत्, तमा- दातुं यायात् । इतोऽनर्थ इतरतोऽनर्थ इत्युभयतोऽनर्थापत् । तस्यां समन्ततोऽनर्थायां च मित्रेभ्यस्सिद्धिं लिप्सेत। मित्रा 433.5 भावे प्रकृतीनां लघीयस्यैकतोऽनर्थान् साधयेत् । उभयतोनर्थान् ___ दण्डानुग्रह भित्रविगृहीता, पातिन