पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
368
[९० अधि, ३ अध्या.
सांगामिकम्

4427   नव शरावं सलिलस्य पूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् ।  तत्तस्य माभून्नरकं च गच्छेद्यो भर्तृपिण्डस्य कृते न युध्येत्।।   इति मन्त्रिपुरोहिताभ्यामुत्साहयेद्योधान् ।   व्यूहसंपदा कार्तान्तिकादिवाश्चास्य वर्ग' सर्वज्ञदैवसयोगख्या. पनाभ्यां स्वपक्षमुद्धर्षयेत् । परपक्षं चोद्वेजयेत् । “श्वो यु- द्धम्” इति कृतोपवासः शस्त्रवाहनं चाधिशयीत । अथर्वभिश्च जुहुयात् । विजययुक्तास्वर्गीयाश्चाशिषो वाचयेत् । ब्राह्म- णेभ्यश्चात्मानमतिसृजेत् । शौर्यशिल्पाभिजनानुरागयुक्तमर्थमा- नाभ्यामविसंवादितमनीकगर्भं कुर्वीत-पितृपुत्रभ्रातृकाणामा- युधीयानामध्वज[१] मुण्डानीक राजस्थान हस्ती रथो वा राजवा- हनमश्वानुवन्धे[२] यत्प्रायस्सैन्यो[३] यत्र वा विनीतः स्यात्तदधिरो- हयेत् । राजव्यञ्जनो व्यूहानुष्ठानमायोज्यः ।  सूतमागधाः शूराणां स्वर्गमस्वर्गं भीरूणां जातिसङ्घकुल- कर्मवृत्तस्तवं च योधाना वर्णयेयु. । पुरोहितपुरुषाः कृत्याभि- चारं ब्रूयुः। सत्रिकवर्धकिमौहूर्तिकास्स्वकर्म सिद्धिमसिद्धिं परेषाम्-  सेनापतिरर्थभानाभ्यामभिसंस्कृतमनीकमाभाषेत-शतसा. हस्रो राजवधः, पञ्चाशत्साहसः सेनापतिकुमारवधः, दशसाहस्रः प्रवरिमुख्यवधः, पञ्चसाहस्रो हास्तिरथवधः, साहस्रोऽश्व- वधः, शत्यः पत्तिमुख्यवधः, शिरो विंशतिकं, भोगद्वैगुण्यं 443 4. स्वयंग्राहश्च" इति । तदेषां दशवर्गाधिपतयो विद्युः ।

  1. 1 मध्वज.
  2. 2 बन्धो.
  3. ३ यत्प्रायझेन्यो.