पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५.१६७ प्रक.]
373
पक्षकक्षोरस्थाना-पत्त्यश्वरयहस्तियुद्धानि व

रथानां द्वौ त्रिभागावङ्गेष्वावापयेत् । शेषमुरस्यं स्थापयेत् । 448 1
एवं विभागोनो रथानामावाप: कार्यः।
तेन हस्तिनामश्वाना आवापो व्याख्यात.।

यावदश्वरथाद्विपानां युद्धसम्बाधी[१]न कुर्यात, तावदावापः का- र्यः। दण्डबाहुल्यमावापः। पत्त्यबाहुल्यं प्रत्यावापः। एकाङ्गबाहु- ळ्यमन्त्रावापः। दूष्यबाहुल्यमत्यावापः। परवापात्[२] प्रत्यावापादा- चतु[३]र्गुणादाऽष्टगुणादिति वा विभवत[४] स्सैन्यानायावापः कार्यः।  रथव्यूहेन हस्तिव्यूहो व्याख्यातः । व्यामिश्रो वा हस्ति- रथाश्वानाम् । चक्रान्तेषु हस्तिनः पार्श्वयोरश्वाः मुख्या रथाः उरस्यहस्तिनामुरस्य स्थानां कक्षावश्वानां पक्षाविति मध्यभेदी; विपरीतोऽन्तभेदी । हस्तिनामेव तु[५] शुद्धः सान्नाह्यानामुरस्य, अपवाह्यानां[६] जघनं व्याळानां कोट्याविति ।

{{

अश्वव्यूहो वर्मिणामुरस्य शुद्धानां कक्षपक्षाविति ।
पत्तिव्यूहः पुरस्तादावरणिन. पृष्ठतो धन्विन इति । शुद्धाः

}}

पत्तयः पक्षयोरश्वा. पार्श्वयोर्हस्तिनः पृष्ठतो रथाः पुरस्तात्पर व्यू- हवशेन वा विपर्यास इति द्वयङ्गबलविभागः। तेन त्रयङ्गबलवि. मागः व्याख्यातः।  दण्डसम्पत्सारबलं पुंसां हस्त्यश्वयोर्विशेषः । कुलं जातिः 448 4 सत्त्वं वयस्थता प्राणो वर्ष[७]जवस्तेजाशिल्पं स्थैर्य मुदग्रता विधे- यत्वं सुव्यञ्जनाचारतेनि पत्त्यश्वरथद्विपानाम् ।

  1. 1 सबाधनं.
  2. 2 परावापात्.
  3. 3 वापादा च चतु
  4. 4 दिति विवादवत.
  5. 5 नास्ति.
  6. 6 आवापबाह्याना.
  7. 7. विर्घा