पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४००

एतत् पृष्ठम् परिष्कृतम् अस्ति
374
[१० अधि ५ अध्या.
साग्रामकम्

448 5  सारत्रिभागमुरस्यं स्थापयेत् । द्वौ त्रिभागौ कक्षं पक्षं चो- भयतः अनुलोममनुसारं प्रतिलोमं तृतीयसार[१] फल्गुप्रतिलोममेवं सर्वमुपयोगं गमयेत् ।  फल्गुवलमन्तेष्ववधाय वेगाभिहूलितो भवति । सारवलम- ग्रतः कृत्वा कोटीष्वनुसारं कुर्यात् । जघने तृतीयसारं, मध्ये फल्गुबलमेतत् सहिष्णुर्भवति । व्यूहं तु स्थापयित्वा पक्षक- क्ष्योरस्यानामेकेन द्वाभ्यां वा प्रहरेत् । शेषैः प्रतिगृह्णीयात्[२] यस्य परस्य दुर्बलं वीतं हस्त्यश्वं दूष्यामात्यकृतोपजापं वा,तत्प्रभूतसारेणाभिहन्यात् । यद्वा परस्य सारिष्ठं, तद्वि- गुणसारेणाभिहन्यात्। यदङ्गमल्पसारमात्मनस्तद्बहुनोपचिनु यात् । यतः परस्यापचयस्ततोऽभ्याशे व्यूहेत, यतो वा भयं स्यात्।  अभिसृतं परिसृतमतिमृतमपसृतमुन्मथ्यावधानं बलयो गो- मूत्रिकामण्डलं प्रकीर्णिका व्यावृत्तपृष्ठमनुवंशमग्रतः पार्श्वाभ्या पृष्ठतो भग्नरक्षा भग्नानुपातः इत्यश्वयुद्धानि ।  प्रकीणिकावर्जान्येतान्येव चतुर्णामङ्गानां व्यस्तसमस्तानां वा घातः, पक्षकक्षोरस्यानां च प्रभञ्जनमवस्कन्दः सौप्तिकं चेति हस्तियुद्धानि ।  उन्मथ्यावधानवर्जान्येतान्येव स्वभूमावभियानापयानस्थित- युद्धानीति रथयुद्धानि । 449 सर्वदेशकालप्रहरणमुपांशुद्धण्डचेति पत्तियुद्धानि ।

  1. 1 सार
  2. 2 द्वाभ्या वा प्रतिग्रहीयात्,