पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०-१६१ प्रक)
379
भेदोपादानानि, उपाशुदण्डव

कोशदण्डाभ्यामुपगृह्य प्रतिपक्षवधे योजयेत्, भिन्नानपवाहयेद्वी। 456 1 एकदेशे समस्तान् वा निवेश्य भूमौ चैषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत् । एकस्था हि शस्त्रग्रहणसमर्था[१]स्स्यु । समवाये चैषामत्ययं स्थापयेत् । राजशब्दिभिरवरुद्धमवक्षिप्तं वा कुल्य[२]मभिजातं राजपुत्रत्वे स्थापयेत् । कार्तान्तिकादि- श्वास्य वर्गों राजलक्षण्यतां सङ्घेषु प्रकाशयेत् । सङ्घमुख्यांश्च धर्मिष्ठानुपजपेत्---"स्वधर्मममुष्य राज्ञः पुत्रे श्रोतरि[३] वा प्र- तिपद्यध्वम्" इति । प्रतिपन्नेषु कृत्यपक्षोपग्रहार्थमर्थं दण्डं च प्रेषयेत् । विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन "नैषेचनिकम्” इति मदनरसयुक्तान् मद्यकुम्भान् शतश' प्रयच्छेयुः । चैत्यदैवतद्वाररक्षास्थानेषु च सत्रिण. समयकर्मनि- क्षेपं साहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः । दृश्यमानेषु च सङ्घेषु "विक्रीताः" इत्यावेदयेयुः। अथाव- स्कन्दं दद्यात् । सङ्घानां वा वाहनहिरण्यकालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् । तदेषां यापिते[४] "दत्त- ममुष्मै मुख्याय" इति ब्रूयात् ।

 एतेन स्कन्धावाराटवीभेदो व्याख्यातः ।  4572

सङ्घमुख्यपुत्रमात्मसंभावितं वा सत्री ग्राहयेत्---" अमुष्य राज्ञः पुत्रस्त्वं शत्रुभयादिह न्यस्तोऽसि" इति । पतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य सङ्घेषु विक्रमयेत् । अवाप्तार्थस्तमपि प्रवासयेत् ।

  1. 1 समुत्था .
  2. 2 तुल्य
  3. 3 भ्रातरि.
  4. 4 याचिते