पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
380
[११ अधि. १ अध्या.
संघवृत्तम्

4574  बन्धकिपोषका प्लवकलटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिस्सङ्घमुख्यानुन्मादयेयुः। जातकामा. नामन्यतमस्य प्रत्ययं कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहानुत्पादयेयुः । कलहे तीक्ष्णाः कर्म कुर्यु:---." हतोऽय- मित्थं कामुकः" इति ।

विसंवादितं वा मर्षयमाणमभिसृत्य स्त्री ब्रूयात् ---" असौ मां मुख्यत्स्वयि जातकामां बाधते; तस्मिन् जीवति नेह स्थास्यामि" इति घातमस्य प्रयोजयेत् ।।

प्रसह्यापहृता वा उपरनान्ते क्रीडागृहे वाऽपहर्तारं रात्रौ ती. क्ष्णेन घातयेत् । स्वयं वा रसेन । ततः प्रकाशयेत्-"अ. मुना मे प्रियो हत" इति । जातकामं वा सिद्धव्यञ्जनः सां वननिकी[१]भिरौषधीभिस्संवास्य रसेनातिसंधायापगच्छेत् । त- स्मिन्नपक्रान्ते सत्रिणः परप्रयोगमभिशंसेयु:--"अस्य विधवा गूढाजीवा योगस्त्रियो वा राजनिक्षेपार्थं[२]विवदमानास्सङ्घमुख्या- नुन्मादयेयुः" इति । कौशिकस्त्रियो नर्तकी गायना वा प्रतिप- न्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टास्तीक्ष्णा हन्युर्बध्वा हरेयुर्वा। सत्री वा स्त्रीलोलुपं सङ्घमुख्यं प्ररूपयेत्-"अमुष्मिन् ग्रामे दरि द्रकुलमपसृतं । तस्य स्त्री राजार्हा गृहाणैनाम्" इति । गृहीताया- मर्धमासान्तरं[३] सिद्धव्यञ्जनो दूष्यसङ्घमुख्यं मध्ये प्रक्रोशेत--

4584 

 " असौ मे मुख्यां भार्या स्नुषां भगिनीं दुहितरं वाधिचरति"
इति । तं चेत्सद्धो निगृह्णीयात्, राजैनमुपगृह्य विगुणेषु विक्रमयेत् ।

  1. 1 सांवादनिकी.
  2. 2 दानिक्षेपार्था.
  3. 3 मासानन्तरं,