य एनमापत्सु प्राणाबाधयुक्तास्वनुगृह्णीयुस्तानमात्यान् कुर्वीत । दृष्टानुरागत्वादिति ॥
नेति पिशुनः--भक्तिरेषा न बुद्धिगुणः । सङ्ख्यातार्थेषु कर्मसु नियुक्ता ये यथाऽऽदिष्टमर्थं सविशेषं वा कुर्युस्तानमात्यान्कुर्वीत । दृष्टगुणत्वादिति ॥
नेति कौणपदन्तः--अन्यैरमात्यगुणैरयुक्ता ह्येते । पितृपैतामहानमात्यान् कुर्वीत, दृष्टापदानत्वात् ते ह्येनमपचरन्तमपि न त्यजन्ति सगन्धत्वात् । अमानुषेष्वपि चैतत् दृश्यते--गावो ह्यसगन्धं गोगणमतिक्रम्य सगन्धेष्वेवावतिष्ठन्ते इति ॥
नेति वातव्याधिः । ते ह्यस्य सर्वमवगृह्य स्वामिवत्प्रचरन्तीति । तस्मान्नीतिविदो नवानमात्यान्कुर्वीत; नवास्तु यमस्थाने दण्डधरं मन्यमाना नापराध्यन्तीति ॥
नेति बाहुदन्तीपुत्रः--शास्त्रविददृष्ट[१] कर्माकर्मसु विषादं गच्छेत् । अभिजनप्रज्ञाशौचशौर्यानुरागयुक्तानमात्यान्कुर्वीत । गुणप्राधान्यादिति ॥
सर्वमुपपन्नमिति कौटिल्यः--कार्यसामर्थ्याद्धि पुरुषसामर्थ्यं कल्प्यते । सामर्थ्यतश्च----
विभज्यामात्यविभवं देशकालौ च कर्म च ।
अमात्यास्सर्व एवैते कार्यास्स्युर्न तु मन्त्रिणः ॥
इति विनयाधिकारिके अमात्योत्पत्तिः अष्टमोऽध्यायः.
- ↑ मातृकाकोशे “शास्त्रविद्दृष्ट" इत्यपि पठितु शक्यते.