पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
386
[१२ अधि. २ अध्या.
आवलीयसम्

त्तमार्जयध्वमित्रांश्च हत" इति । बहुळीभूते तीक्ष्णा. पौरा- 465 4 निशास्वाहारयेयु , मुख्यांश्चाभिहन्यु:-"एवं क्रियन्ते, ये शु- न्यपालस्य न शुश्रूषन्ते" इति । शून्यपालस्थानेषु च सशो- णितानि शस्त्रवित्तबन्धनान्युत्सृजेयुः । ततस्सत्रिणः- "शून्य- पालो घातयति, विलोपयति च" इत्यावेदयेयुः। एवं जान- पदान् समाहर्तूर्भदययुः ॥

 समाहर्तृ पुरुषांस्तु-ग्राममध्येषु रात्रौ तीक्ष्णा गत्वा[१] ब्रूयुः "एवं क्रियन्ते ; ये जनपदमधर्मेण बाधन्ते' इति । समु. त्पन्ने दोषे शून्यपालं समाहर्तारं वा प्रकृतिकोपेन घातयेयुः तत्कुलीनमवरुद्धं वा प्रतिपादयेयुः ।।

अन्तःपुरपुरद्वारं द्रव्यधान्यपरिग्रहान् ।
दहेयुस्तांश्च हन्युर्वा बूयुरस्यार्तवादिनः ।।

इत्याबलीयसे द्वादशेऽधिकरणे दूतकर्माणि वाक्ययुद्धं मन्त्रयुद्धं द्वितीयोध्यायः आदितस्सप्तत्रिंशच्छतः


१६४-१६५ प्रक, सेनामुख्यवधः, मण्डल-
प्रोत्साहनं च

466 4 राज्ञा राजवल्लभानां चासन्नास्सत्रिणः "पत्त्यश्वरथद्विपमु.

ख्यानां राजा क्रुद्धः” इति सुहृद्विश्वासेन मित्रस्थानीयेषु कः
  1. 1 हत्वा .