पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४१३

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६४-१५ प्रक]
387
सेनामूख्यवध , मण्डलप्रोत्साहन च

थयेयुः। बहुळीभूते तीक्ष्णा. कृतरात्रिचारप्रतीकाराः "गृह- 466 4 स्वामिवचनेन आगम्यताम्" इति ब्रूयु. । तान्निर्गच्छत एवाभि- हन्युः । “स्वामिसंदेशः" इति चासन्ना ब्रूयुः । ये च प्रवा- सितास्तान् सत्रिणो ब्रूयुः--"एतत्तद्यदस्माभिः कथितं जी- वितुकामेन अपक्रान्तव्यम्" इति ।।

येभ्यश्च राजा याचितो न ददाति तान् सत्रिणो ब्रूयु:- "उक्तः शून्यपालो राज्ञा अयाच्यमर्थमसौ चासौ मा याचते । मया प्रत्याख्याताः शत्रुसंहिता , तेषामुद्धरणे प्रयतस्व" इति । ततः पूर्ववदाचरेत् ॥

 येभ्यश्च राजा याचितो ददाति, तान् सत्रिणो ब्रूयु:- "उक्तः शून्यपालो राज्ञा-याच्यमर्थमसौ चासौ च मा याचते; तेभ्यो मया सोऽर्थो विश्वासार्थ दत्त ; शत्रुसंहितास्तेषामुद्धरणे प्रयतस्व” इति । ततः पूर्ववदाचरेत् ।।

ये चैनं याच्यमर्थं न याचन्ते, तान् सत्रिणो ब्रूयुः-"उक्तः शून्यपालो राज्ञा-याच्यमर्थमसौ चासौ च मा न याचते ; कि- मन्यत् ? स्वदोषशङ्कितत्वात् । तेषामुद्धरणे प्रयतस्व" इति। ततः पूर्ववदाचरेत् ॥

एतेन सर्वः कृत्यपक्षो व्याख्यातः ॥

 प्रत्यासन्नो वा राजानं सत्री ग्राहयेत् ---"असौ चासौ च ते 467 5 महामात्रः शत्रुपुरुषैस्सम्भाष्यते" इति । प्रतिपन्ने दूष्यानस्य शासनहरान दर्शयेत्---"एतत्तत् " इति ॥