पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
394
[१३ अधि. 1 अध्या.
आवलायसम्

473 4 तमे वा विहारस्थाने प्रमत्तं भूमिगृहसुरङ्गागूढभित्तिप्रविष्टास्ती. क्ष्णा हन्युः । गूढप्रणिहिता वा रसेन स्वपतो वा निरुद्धे देशे गूढास्त्रियः सर्परसाग्निधूमानुपरि मुञ्चेयुः। प्रत्युत्पन्ने वा कारणे यद्यदुपपद्येत तत्तदमित्रेऽन्तःपुरगते गूढसञ्चारः प्रयुञ्जीत । ततो गूढमेवापगच्छेत् । स्वजनसंज्ञां च प्ररूपयेत् ।

4742 {{bold|

द्वार्स्थान्वर्षपरांश्चान्यान् निगूढोपहितान् परैः।
तूर्यसंज्ञाभिराहूय द्विषच्छेषाणि कारयेत् ॥

इत्याबलीयसे योगातिसन्धान, दण्डातिसन्धान, एकविजयश्च
पञ्चमोऽध्यायः, आदितश्चत्वारिंशच्छतः । एतावता
कौटिलीयस्यार्थशास्त्रस्य आबलीयसं द्वादशमधि-
करणं समाप्तम्


१३ अधि. दुर्गलम्भोपायः.
१७१ प्रक, उपजापः.

 विजिगीषुः परग्राममवाप्तुकामः सर्वज्ञदैवतसंयोगख्यापना भ्यां स्वपक्षमुद्धर्षयेत् । परपक्षं चोद्वैजयेत् ।

 सर्वज्ञख्यापनं तु-गृहगुह्यप्रवृत्तिज्ञाने[१] प्रत्यादेशो मुख्यानां; कण्टकशोधनापसागमेन प्रकाशनं राजद्विष्टकारिणां ; विज्ञाप्ये वा नयख्यापन[२]मदृष्टसंसर्गविद्यासंज्ञादिभिः विदेशिप्रवृत्ति- 475 2 ज्ञानं तदहरेव गृहकपोतेन मुद्रासंयुक्तेन ।

  1. 1 गृहपप्रवृत्तिज्ञानेन.
  2. 2 विज्ञाप्यौपायनख्यापन.