पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२ प्रक
397
योगवामनम्

भवत्समीपे चतुर्थमग्निं प्रवेक्ष्यामि : अवश्यं मे भवाना-

नयितव्यः; त्रीन् वरान् वृणीष्व" इति । प्रतिपन्नं ब्रूयात्-- 4782

" सप्तरात्रमिह सपुत्रदारेण प्रेक्षाप्रहवणपूर्वं वस्तव्यम्" इति ।

वसन्तमवस्कन्देत ।

 मुण्डो वा जटिलो वा स्थानिकव्यञ्जनः प्रभूतजटिलान्तेवासी

वस्त्रशोणितदिग्धां वेणुशलाकां सुवर्णचूर्णेनावलिप्य वल्मीके

निदध्यात्, उपजिह्वाकानुसरणार्थं स्वर्णनाळिकां वा । ततस्सत्री

राज्ञः कथयेत्-"असौ सिद्धः पुष्पितं निधिं जानाति" इति

स राज्ञा पृष्टः " तथा" इति ब्रूयात् । तच्चाभिज्ञानं दर्शयेत् ।

भूयो वा हिरण्यमन्तराधाय ब्रूयाच्चैनं-" नागरक्षितोऽयं निधिः

प्रणिपातसाध्यः" इति । प्रतिपन्नं ब्रूयात्-" सप्तरात्रं" इति

समानम् ।

 स्थानिकव्यञ्जनो वा रात्रौ तेजनाग्नियुक्तमेकान्ते तिष्ठन्तं सत्रि-

णः क्रमाभिनीतं राज्ञः कथयेयुः-"असौ सिद्धस्सामेधिकः"

इति । तं राजा यमर्थ याचेत, तमस्य करिष्यमाणः, “सप्त-

रात्रं"-इति समानम् ।

 सिद्धव्यञ्जनो वा राजानं जम्भकविद्याभिः प्रलोभयेत् ।

"तं राजा" इति समानम् ।

 सिद्धव्यञ्जनो वा देशदेवतामभ्यर्हितामाश्रित्य प्रहवणैरभीक्ष्णं

प्रकृतिमुख्यानभिसंवास्य क्रमेण राजानमतिसंदध्यात् ।

जटिलव्यञ्जनमन्तरुदकवासिनं वा सर्पचैत्यसुरङ्गाभूमिगृहाप 479 4