पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
398
[१३ अधि. २ अध्या.
दुर्गलम्भोपायः

सरणं वरुणं नागराज वा सत्रिणः क्रमामिनीन राज्ञः

कथयेयुः। “तं राजा" इति समानम् ।

4796  जनपदान्तेवासी सिद्धव्यञ्जनो वा राजानं शत्रुदर्शनाय

योजयेत् । प्रतिपन्नं बिम्बं कृत्वा शत्रुमावाहयित्वाऽनिरुद्धे[१]

देशे धातयेत् ।

अश्वपण्योपयाता वैदेहकव्यञ्जनाःपण्योपायनिमि[२]त्तमाहूय रा.

जानं पण्यपरीक्षायामासक्तमश्वव्यतिकीर्ण वा हन्युरश्चैश्च प्रहरेयुः

नगराभ्याशे वा चैत्यमारुह्य रात्रौ तीक्ष्णा कुम्भेषु नाळीन्वा

विदुलानि धमन्त:-" स्वामिनो मुख्यानां वा मांसानि -ि

ष्यामः पूजा नो वर्तताम्" इत्यव्यक्तं ब्रूयुः । तदेषां नैमित्तिक-

मौर्हूतिकव्यञ्जनाः ख्यापयेयुः । मङ्गल्ये वा हृदे तटाके मध्ये[३]

वा रात्रौ तेजनतैलाभ्यक्ता नागरूपिणः शक्तिमुसलान्ययोमया-

नि निष्पेषयन्तस्तथैव बूयुः । ऋक्षचर्मकञ्चुकिनो वा अग्निधू.

मोत्सर्गयुक्ता रक्षोरुपं वहन्तस्त्रिरपसव्यं नगरं कुर्वाणाः शिवास्सृ-

गालवाशितान्तरेषु तथैव ब्रूयुः । चैत्यदैवतप्रतिमां वा तेजन

तैलेनाभ्रपटलच्छन्नेनाग्निना वा रात्रौ प्रज्वाल्य तथैव ब्रूयुः। तद-

480°2 न्ये ख्यापयेयुः । दैवतप्रतिमानामभ्यर्हितानां वा शोणितेन प्रस्ना-

वमतिमात्रं कुर्युः। तदन्ये देवरुधिरसंस्रावेऽत्र शूरवादिकोऽन्यत-

मो [४]वा द्रष्टुमागच्छेत् । तमन्ये लोहमुसलैर्हन्युः। यथा रक्षोभिर्हत

  1. 1 निरु
  2. 2 प ण्योपयाननिमि.
  3. 3 तटाकमध्ये.
  4. 4संस्रावे सज्ञामे पराजयं ब्रूयु. । सन्धिगत्रिषु श्मशानप्रमुख वा चैत्यमूर्ध्व- भक्षितैर्मनुष्यै प्ररूपयेयुः । ततो रक्षोरूपी मनुष्यक याचेत । यश्चात्र शूरादिकोऽन्यतमो.