पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३ प्रक.]
401
अपसर्पप्राणधिः

इति । अथैकममात्यं निष्पातयेत् । स परमाश्रित्य योगापस- 4822

र्पापरक्तदूष्यानशक्तिमतः स्तेनाटविकानुभयोपघातकान् वा पर-

स्योपहरेत् । आप्तभावोपगतः प्रवीरपुरुषोपघातमस्योपहरेत्

अन्तपालमाटविकं दण्डचारिणं वा-"दृढमसौ चासौ च ते श.

त्रुणा संधत्ते" इति । अथ पश्चादभिव्यक्तशासनैरेनान् घात.

येत्। “दण्डबलव्यवहारोऽपकरोति'; तमेहि संभूय हनिष्यावः,

भूमौ हिरण्ये वा ते परिग्रहः” इति । प्रतिपन्नमभिसत्कृत्या-

गतमवस्कन्देन प्रकाशयुद्धेन वा शत्रुणा घातयेत्। अभिविश्वासना-

र्थं भूमिदानपुत्राभिषेकरक्षाऽपदेशेन वा ग्राहयेत्। अविषह्यमुपां-

शुदण्डेन वा घातयेत् । स चेद्यं न स्वयमागच्छेत्, तमस्य वै-

रिणा घातयेत् । दण्डेन वा प्रयातुमिच्छेत् न विजुगीषुणा,

तथाऽप्येनमुभयतस्संपीडनेन घातयेत्। अविश्वस्तो वा प्रत्येकशो

यातुमिच्छेत्, राज्यैकदेशं वा यातव्यस्य आदातुकामः, तथाs-

प्येनं वैरिणा सर्वसंदोहेन वा घातयेत् । वैरिणा वा सक्तस्य

दण्डोपनयेन मूलमन्यतो हारयेत् ; शत्रुभूम्या वा मित्रं पणेता

मित्रभूम्या चा शत्रुम् । ततः शत्रुभूमिलिप्सायां मित्रेणात्मन्यप.

कारयित्वाऽभियुञ्जीतेति-~~-समानाः पूर्वेण सर्व एव योगाः।


शत्रुं वा मित्रभूमिलिप्सायां प्रतिपन्नं दण्डेनानुगृह्णीयात् । ततो 4832

मित्रं तमति संदध्यात् । ततः प्रतिविधानेन वा व्यसनमात्मनो

दर्शयित्वा मित्रेणामित्रमुत्साहयित्वा आत्मानमभियोजयेत्। तत-

स्संपीडनेन धातयेत् । जीवग्राहेण वा राज्यविनिमयं कारयेत् ।


1 दण्डबलव्यवहारेण वा शत्रुमुद्योज्य घातयेत् । कृत्यपक्षोपग्रहेण वा परस्यामित्र गजानमात्मन्यपकारयित्वाभियुञ्जीत । ततः परस्य प्रेषयेत् । असौ ते वीरो ममापकरोति.

  • स्कन्देत ' स चेद्दण्ड दद्यान्न. 4 वैरी. मित्रगतमति .
    51