पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३

पुटमेतत् सुपुष्टितम्
16
[१ अधि. १० अध्या,
विनयाधिकारिकम्

 यैश्च प्रतिकर्तारं कुर्वीत । तमाचार्यं शिष्यः पितरं पुत्रो भृत्यस्स्वामिनमिव चानुवर्तेत ।

ब्राह्मणेनैधितं क्षत्रं मन्त्रिमन्त्राभिमन्त्रितम् ।
जयत्याजितमत्यन्तं शास्त्रानुगम[१] शस्त्रितम् ॥

 इति विनयाधिकारिके मन्त्रिपुरोहितोत्पत्तिः नवमोऽध्यायः.


 ६. प्रक. उपधाभिश्शौचाशौचज्ञानममात्यानाम्.


 मन्त्रिपुरोहितसख[२]स्सामान्येष्वधिकरणेषु स्थापयित्वाऽमात्यानुपधाभिश्शौचयेत् ।

 पुरोहितमयाज्ययाजनाध्यापने नियुक्तममृष्यमाणं राजा अवक्षिपेत् । स सत्रिभिश्शपथ[३] पूर्वमेकैकममात्यमुपजापयेत्--- अधार्मिकोऽयं राजा साधुधार्मिकमन्यमस्य तत्कुलीनमवरुद्धं कुल्यमेकप्रग्रहं सामन्तमाटविकमौपपादिकं[४] वा प्रतिपादयामः सर्वेषामेतद्रोचते कथं वा तवेति । प्रत्याख्याने शुचिरिति धर्मोपधा ।

 सेनापतिरसत्प्रग्रहे[५] णावक्षिप्तस्सत्रिभिरेकैकममात्यमुपजापयेल्लोभनीयेनार्थेन[६] राजाविनाशनाय--सर्वेषामेतद्रोचते कथं वा तवेति । प्रत्याख्याने शुचिरित्यर्थोपधा ।

 परिव्राजिका लब्धविश्वासाऽन्तःपुरे कृतसत्कारा महामात्रमेकैकमुपजपेत्---राजमहिषी त्वां कामयते कृतसमागमोपाया; महानर्थश्च भविष्यतीति । प्रत्याख्याने शुचिरिति कामोपधा ।

  1. गत.
  2. पुरोहितः,
  3. शापथ.
  4. पादिक.
  5. रसत्प्रतिग्रहे.
  6. ल्लोभयेद्राज.