स्कन्धाचारादुच्छ्रितध्वजधन्वारक्षा वा मानुषेणाग्निना परदुर्ग- 4872
मादीपयेयुः।
गूढपुरुषाश्चान्तदुर्गपालका नकुलवानरविडालशुनां पुच्छेष्व-
ग्नियोगमाधाय काण्डनिचयरक्षाविधानवेश्मनु विसृजेयुः ।
शुष्कमत्स्यानामुदरेष्वग्निमाधाय भल्लूकरेवावायसोपहारेण
वयोभिर्हारयेयुः।
सरळ्देवदारुपूतितृणगुग्गुलुश्रीवेष्टकसज्जरसलाक्षागुळिकाः
खरोष्ट्राजावीनां लण्डं चाग्निधारणम् ।
प्रियाळ'चूर्णमवल्गुजमषिमधूच्छिष्टमश्वखरोष्ट्रगोलण्डमित्येष
क्षेप्योऽग्नियोगः ।
सर्वलोहचूर्णमग्निवर्णं वा कुम्भासीसत्रपुचूर्ण वा पारिभद्रक-
पलाशपुष्पकेशमषीतैलमधूच्छिष्टकश्रीवेष्टकयुक्तोऽग्नियोगः, वि-
श्वासघाती वा । तेनावलिप्तः शणत्रपुसीसवल्कवेष्टितो बाण
इत्यग्नियोगः।
न त्वेव विद्यमाने पराक्रमेऽग्निमवसृजेत्। अविश्वास्यो ह्यग्निः
दैवपीडनं च। अप्रतिसङ्घातप्राणिधान्यपशुहिरण्यकुप्यद्रव्यक्षय-
करः । क्षीणनिचयं चावाप्तमपि राज्यं क्षयायैव भवति ।
इति पर्युपासनकर्म ॥ 4882
"सर्वारम्भोपकरणविष्टिसम्पन्नोऽस्मि ; व्याधितः पर उप-
मियानु. ५ मधी.