पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४.१७५ प्रक.]
407
पर्युपासनकर्म, अवमर्दश्च

 पण्यसम्पातं वा कृत्वा पण्येनैनं रसविद्धनातिसंदध्यात् । 439 4

 आसारव्यञ्जनो वा संरुद्धस्य दूतं प्रेषयेत्-"मया वा ह्यभि-

हतमुपनिर्गच्छाभिहन्तुम् ' इति । प्रतिपन्नं पूर्वपदाचरेत् ।

 मित्रं बन्धु वाऽपदिश्य योगपुरुषाः शासनमुद्राहस्ताः प्रविश्य

दुर्गं ग्राहयेयु.।

 आसारव्यञ्जनो वा संरुद्धस्य प्रेषयेत्-"अमुष्मिन् देशे का-

ले च स्कन्धावारमभिहनिष्यामि; युष्माभिरपि योद्धव्यम्"

इति । प्रतिपन्नं यथोक्तमत्याघात संकुल दर्शयित्वा रात्रौ दुर्गा

निष्क्रान्तं घातयेत् ।

 यद्वा मित्रमावाहयेत आटविकं वात मुत्साहयेत्-"विक्रम्य

सरुद्धे भूमिमस्य प्रतिपद्यस्व" इति । विक्रान्तं प्रकृतिभिर्दूष्यमु.

ख्योपग्रहेण वा घातयेत् । स्वयं वा “रसेन मित्रघातकोऽयम्"

इत्यवाप्तार्थो विक्रमितुकामं वा मित्रव्यञ्जन. परस्याभिशंसेत् ।

आप्तभावोपगत प्रवीरपुरुषानस्योपघातयेत् । सन्धिं वा कृत्वा

जनपदमेनं निवेशयेत् । निविष्टमन्य जनपदमविज्ञातो हन्यात् ।

अपकारयित्वा दूष्याटविकेषु वा बलैकदेशमतिनीय दुर्गमवस्क-

न्देन हारयेत्। दूष्यामित्राटविकद्वेष्यप्रत्यपसृताश्च कृतार्थमानसं-

ज्ञाचिह्नाः परदुर्गमवस्कन्देयुः ।

 परदुर्गमवस्कन्ध स्कन्धावारं वा पतितपराङ्मुखाभिपन्नमुक्त- 490 2

केशशस्त्रभयविरूपेभ्यश्चाभयमयुध्यमानेभ्यश्च दध्युः । परदुर्गम-

वाप्य विशुद्ध शत्रुपक्षं कृतोपांशुदण्डप्राकारमन्तर्बहिश्च प्रविशेत्।


मभ्याघात पात निविष्टमस्य.