पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
408
[१३ अपि. १४ अध्या.
दुर्गलम्भोपयः

490 8 एवं विजिगीषुरमित्रभूमि लब्ध्वा मध्यमं लिप्सेत । तसि

द्धानुदासीनम् । एष प्रथमो मार्गः पृथिवीं जेतुम् ।

 मध्यमोदासीनयोरभावे गुणातिशयेनारिप्रकृतीस्साधयेत् ।

तत उत्तराः प्रकृतीः । एष द्वितीयो मार्गः ।

 मण्डलस्याभावे शत्रुणा मित्रं मित्रेण वा शत्रुनुभयतः सं-

पीडनेन साधयेत् । एष तृतीयो मार्ग ।

 अशक्यमेकं वा सामन्त साधयेत् । तेन द्विगुणो द्वितीयं त्रि

गुणस्तृतीयम् । एष चतुर्थो मार्ग. पृथिवी जेतुम् ।

 जित्वा च पृथिवीं विभक्तवर्णाश्रमां स्वधर्मेण भुञ्जीत ।

 उपजापापसर्पौ च वामनं पर्युपासनम् ।

 अवमर्दश्च पञ्चैत्ते दुर्गलम्भस्य हेतवः ।।

इति दुर्गलम्भोपाये पर्युपासनकर्म, अवमर्दश्च चतुर्थोऽध्यायः

आदितश्चतुश्चत्वारिंशच्छत.



१७६ प्रक. लब्धप्रशमनम्.


 द्विविध विजिगीषोः समुत्थानम्-अटव्यादिकमेकग्रामादिकं च।

491 5 त्रिविधश्चास्य लम्भः-नवो, भूतपूर्व, पित्रय इति । नव

मवाप्य लम्भं परदोषान् स्वगुणश्छादयेत्। गुणान् गुणद्वैगुण्येन

स्वधर्मकर्मानुग्रहपरिहारदानमानकर्मभिश्च प्रकृनिप्रियहितान्यनु

वर्तेत । यथासंभाषितं च कृत्यपक्षमुपग्राहयेत् । भूयश्च कृतप्र-


लाभ