पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
416
[१४ आधे. २ अध्या.
औपनिषदिकम्

5025  शकुनकङ्गुतैलयुक्ता हरिताळमनश्शिलाः श्यामीकरणम् ।

 खद्योतचूर्णं मर्षपतैलयुक्तं रात्रौ ज्वलति । खद्योतगण्डूपद-

 चूर्णं समुद्रजन्तूनां भृङ्गकपालानां खीदरकणिकाराणां पुष्पचूर्णं

 वा शकुनकङ्गुतैलयुक्तं तेजनचूर्णम् ।

  पारिभद्रकत्वङ्मषी मण्डूकवसया युक्ता गात्रप्रज्वालनम-

ग्निना!

 पारिभद्रकत्वक्तिलकल्कप्रदिग्धं शरीरमाग्निना ज्वलति ।

 पीलुत्वङ्मषीमयः पिण्डो हस्ते ज्वलति ।

मण्डूकवसादिग्धोऽग्निना ज्वलति ।

 तेन प्रदिग्धमङ्गं कुशाम्रफलतैलसिक्तं समुद्रमत्डूकीफेनकस

र्जरसचूर्णयुक्तं वा ज्वलति ।

 मण्डूकवसाकुळीरादीनां वसया समभागं तैलं सिद्धमभ्यङ्गो

गात्राणामनिप्रज्वालनम् ।

 मण्डूकवसादिग्धोऽग्निना ज्वलति ।

 वेणुमूलशैवललितमङ्गं मण्डूकवसादिग्धमग्निना ज्वलति ।

 पारिभद्रकप्रतिबलावञ्जुळवज्रकदळीमूलकल्केन मण्डूकवसा-

दिग्धेन' तैलेनाभ्यक्तपादोऽङ्गारेषु गच्छति ।

  उपोदका प्रतिबला वञ्जुलः पारिभद्रकः ।

  एतेषां मूलकल्केन मण्डूकवसया सह ।।

5087  साधयेतैलमेतेन पादावभ्यज्य निर्मलौ ।

  अङ्गारराशौ विचरेद्यथा कुसमसञ्चये ।।


1वसासिद्धेन.