पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५

पुटमेतत् सुपुष्टितम्
18
[१ अधि. १० अध्या.
विनयाधिकारिकम्

तस्माद्धाह्यमधिष्टानं कृत्वा कार्ये चतुर्विधे ।
शौचाशौचममात्यानां राजा मार्गेत सत्रिभिः ।
इति विनयाधिकारिके उपधाभिश्शौचशौच
ज्ञानममात्यानां दशमोऽध्याय .


७. प्रक. गूढपुरुषोत्पत्तिः


 उपधाभिश्शुद्धामात्यवर्गों गूढपुरुषानुत्पादयेत् ।
कापाटिकोदास्थितगृहपतिकवैदेहकतापसव्यञ्जनान् सत्रिती क्ष्णरसदाभक्षुकीश्च ।  परमर्मज्ञः प्रगल्भः[१] छात्रः कापटिकः । तमर्थमानाभ्या मुत्साह्य मन्त्री ब्रूयात्---राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीमेव प्रत्यादिशेति ।  प्रव्रज्याप्रत्यवासितः[२]. प्रज्ञाशौचयुक्त उदास्थितः । स वार्ताकर्मपप्रदिष्टायां भूभौ प्रभूतहिरण्यान्तेवासी कर्म कारयेत् । कर्मफलाच्च सर्वप्रव्रजितानां ग्रासाच्छादनावसथान् प्रतिविद ध्यात् । वृत्तिकामांश्चापजपेत्-एतेनैव दोषेण<ref> राजार्थश्चरि तव्यों भक्तवेतनकाले चोंपस्थातव्यामिति ।

सर्वप्रजिताश्च स्वं स्वं वर्गमुपजपेयुः ।।

 कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिकव्यञ्जनः । स कृषिकर्मप्रादिष्टायां भूमाविति--समानं पूर्वेण ।।

  1. प्रगल्भच्छात्र ।
  2. प्रवृज्यप्रत्यवग्रत ,