प्रदेशः, उपमानं, अर्थापत्तिः, संशयः, प्रसङ्गः, विपर्ययः, वा- 515 2
क्यशेषः, अनुमतं, व्याख्यान, निर्वचनं, निदर्शनं, अपवर्गः,
स्वसंज्ञा, पूर्वपक्षः, उत्तरपक्ष', एकान्तः, अनागतावेक्षणं, अति-
क्रान्तावेक्षणं, नियोगः, विकल्प , समुच्चयः, ऊह्ममिति ।
यमर्थमधिकृत्योच्यते तदाधिकरणम्-" पृथिव्या लाभे पाल-
ने च यावन्यर्थशास्त्राणि पूर्वाचार्यै प्रस्थापितानि प्रायशस्तानि
संहृत्यैकमिदमर्थशास्त्र कृतम्" इति।
शास्त्रस्य प्रकरणानुपूर्वी विधानम्-"विधासमुद्देश', वृद्धसं-
योगः, इन्द्रियजयः, अमात्योत्पत्ति.” इति ।
एवमादिकमिति वाक्ययोजना योगः--" चतुर्वर्णाश्रमो
लोकः" इति ।
पदावधिकः पदार्थः -" मूलहरः" इति पदम् । “यः
पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः" इत्यर्थः ।
हेतुरर्थसाधको हेत्वर्थः-" अर्थमूलौ हि धर्मकामो " इति ।
समासवाक्यमुद्देश -"विद्याविनयहेतुरिन्द्रियजयः" इति ।
व्यासवाक्यं निर्देश:--" कर्णत्वगक्षिजिह्वाघ्राणेन्द्रियाणां
शब्दस्पर्शरूपरसगन्धेष्वविप्रतिपत्तिरिन्द्रियजयः" इति। 5167
1 अधिकरण 1, अध्यायः 1 अधिकरण 1, अध्याय 1
4 अधि II, अध्या 9
अधि, I, अध्या. 7
6 अधि, I, अध्या 8
3 अधि, I, अध्या.4