पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४० प्रक.]
429
तन्त्रयुक्तय

 प्रकरणान्तरेण समानोऽर्थः प्रसङ्ग:--"कृषिकर्मप्रदिष्टायां 5177

भूमाविति समान पूर्वेण" इति ।

 प्रतिलोमेन साधनं विपर्यय:-~"विपरीतमतुष्टस्य 12 इति ।

 येन वाक्यं समाप्यते, स वाक्यशेष:-“छिन्नपक्षस्येव राज्ञ-

श्वेष्टानाशश्चेति'3 तत्र शकुनरिति वाक्यशेषः ।

 परवाक्यमप्रतिषिद्धमनुमतम्--"पक्षावुरस्यं प्रतिग्रह इत्यौश-

नसो व्यूहविभागः” इति ।

 अतिशयवर्णना व्याख्यानम् --"विशेषतश्च सङ्घानां सङ्घध-

र्मिणां च राजकुलानां द्यूतनिमित्तो भेदः तन्निमित्तो विनाश

इत्यसत्प्रग्रहः पापिष्ठतमो व्यसननां तन्त्रदौर्बल्यात् ” इति ।

 गुणत शब्दनिष्पत्तिनिर्वचनम्-"व्यस्यत्येनं श्रेयस इति

व्यसनम् १" इति ।

 दृष्टान्तो दृष्टान्तयुक्तो निदर्शनम् -'विगृहीतो हि ज्यायसा

हस्तिनः पादयुद्धमिवाभ्युपैति" इति ।

 अभिप्लुतव्यपकर्षणमपवर्ग:-"नित्यमासन्नमारिवलं वासये- 518.8

दन्यत्राभ्यन्तरकोपशङ्कायाः" इति ।


1 अघि I, अध्या. 11

3 आध. VIII, अध्या. 1

अधि VIII, अध्या. 3

अधि. VII, अध्या.

2 अधि I, अध्या 16

  • अधि X, अध्या. 68

अधि VIII, अध्या. 1

अधि. IX, अध्या.