पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
430
[१६ अधि १ अध्या.
तन्त्रयुक्तिय

5191  परैरसमित श्शब्दः स्वसंज्ञा--"प्रथमा प्रकृतिस्तस्य भूम्य-

नन्तरा द्वितीया, भूम्येकान्तरा तृतीया इति ।

 प्रतिषेद्धव्यं वाक्यं पूर्वपक्ष:- “स्वाम्यमात्यव्यसनयोरमा

त्यव्यसन गरीयः '12 इति ।

 तस्य निर्णयनवाक्यमुत्तरपक्षः-""तदायत्तत्वात् ; कूटस्था-

नीयो हि स्वामी" इति ।

 सर्वत्रायत्तमेकान्त:-"तस्मादुत्थानमात्मनः कुर्वीत" इति ।

 पश्चादेवं विहितमित्यनागतावेक्षणम्-"तुलापतिमानं पौ-

तवाध्यक्षे वक्ष्यामः” इति ।

 पुरस्तादेवं विहितमित्यतिक्रान्तावेक्षणम् --" अमात्यसम्पदु-

क्ता पुरस्तात्" इति ।

 एवं नान्यथेति नियोगः --" तस्माद्धर्ममर्थं चास्योपदिशेन्ना-

धर्ममनर्थ च इति ।

519 8   अनेन वाऽनेन वेति विकल्पः-दुहितरो वा धर्मिष्ठेषु विवा-

हेषु जाताः" इति ।


+ परैरनमित.

1 अधि. VI, अध्या. 2?

अधिVIII, अध्या 1

माधि, II, अध्या 10

माधि.I, अध्या. 17

2 अघि VIII, अध्या, I

4 अधि I, अध्या. 19

6 अधि. VI अध्या 1

8 अधि ,III, अध्या. 4