पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्री
चाणक्यसूत्राणि.


1 सुखस्य मूलं धर्मः ।
2 धर्मस्य मूलमर्थः।
3 अर्थस्य मूल राज्यम् ।
4 राज्यमूलमिन्द्रियजय.
5 इन्द्रियजयस्य मूलं विनय ।
6 विनयस्य मूलं वृद्धोपसेवा ।
7 वृद्धसेवाया विज्ञानम् ।
s विज्ञानेनात्मानं संपादयेत् ।
9 संपादितात्मा जितात्मा भवति ।
10 जितात्मा सर्वार्थैस्संयुज्येत ।
11 अर्थसंपत्प्रकृतिसंपदं करोति ।
12 प्रकृतिसंपदा ह्यनायकमपि राज्यं नीयते ।
13 प्रकृतिकोपस्सर्वकोपेभ्यो गरीयान् ।
14 अविनीतस्वामिलामादस्वामिलाभः श्रेयान् ।
15 संपाद्यात्मानमन्विच्छेत्सहायवान् ।
16 नासहायस्य मन्त्रनिश्चयः।
17 नैकं चक्रं परिभ्रमयति ।
16 सहायरसमसुखदुःखः ।
19 मानी प्रतिमानिनमात्मनि द्वितीयं मन्त्रमुपादयेत् ।

1 अर्थशास्त्रम् I-3 अर्थशास्त्र I-4 अर्थशा I-7 चक्रमेक न वर्तते. 55