पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
437
चाणक्यसूत्राणि

८९ दण्डे प्रतीयते वृत्तिः ।
90 वृत्तिमूलमर्थलाभः ।
91 अर्थमूलौ धर्मकामौ ।
92 अर्थमूलं कार्यम् ।
93 यदल्पप्रयत्नात्कार्यसिद्धिर्भवति ।
94 उपायपूर्ंव न दुष्कर स्यात् ।
95 अनुपायपूर्वं कार्यं कृतमपि नश्यति ।
96 कार्यार्थिनामुपाय एव सहायः ।
7 कार्यं पुरुषकारेण लक्ष्यं संघद्यते ।
98 पुरुषकारमनुवर्तते दैवम् ।
99 देवं विनाऽतिप्रयत्नं करोति यत्तद्विफलम् ।
100 असमाहितस्थ वृत्तिर्न विद्यते ।
101 पूर्वं निश्चित्य पश्चात्कार्यमारभेत् ।
102 कार्यान्तरे दीर्घसूत्रता न कर्तव्या।
103 न चलचित्तस्य कार्यावाप्तिः ।
104 हस्तगतावमाननात्कार्यव्यतिक्रमो भवति ।
105 दोषवर्जितानि कार्याणि दुर्लभानि ।
106 दुरनुबन्धं कार्यं चारभेत ।
107 कालवित् कार्यं साधयेत् !
108 कालातिक्रमात्काल एव फलं पिबति ।
109 क्षणं प्रति कालविक्षेपं न कुर्यात्सर्वकृत्येषु ।
110 देशफलविभागौ ज्ञात्वा कार्यमारभेत ।
111 दैवहीनं कार्यं सुसाधमपि दुरसाधं भवति ।
112 नीतिज्ञो देशकालौ परीक्षेत ।।
113 परीक्ष्यकारिणि श्रीश्चिरं तिष्ठति ।