पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
442
अर्थशास्त्र

211 अज्ञाफलमैश्वर्यम् ।
212 दातव्यमपि बालिश. परिक्लेशेन दास्यति ।
213 महदैश्वर्यं प्राण्याय्यधृतिमान् विनश्यति ।
214 नास्त्यधृतेरैहिकामुष्मिकम् ।।
215 न दुर्जनस्सह संसर्गः कर्तव्यः ।
216 शौण्डहस्तगतं पयोप्यवमन्येत ।
217 कार्यसंकटेष्वर्थव्यवसायिनी बुद्धि ।
218 मितभोजन स्वास्थ्यम् ।
219 पथ्यमपथ्याजीणें नाभीयात् ।
220 जीर्णमोजिन व्याधिनोपसर्पति ।
221 जीर्णशरीरे वर्धमान व्याधिर्नोपेक्षेत ।
222 अजीर्णे भोजनं दु खम् ।
223 शत्रोरपि विशिष्यते व्याधिः ।
244 दानं निधानमनुगामि ।
225 पटुतरे तृष्णापरे सुलममतिसन्धानम् ।
226 तृष्णया मतिश्छाद्यते।
227 कार्यबहुत्वे बहुफलमायातिकं कुर्यात् ।
228 स्वयमेवावस्कन्नं कार्यं निरीक्षेत ।
229 मूर्खेषु साहसं नियतम् ।
230 मूखैषु विवादो न कर्तव्य ।
231 मूर्खेषु मूर्खवत्कथयेत् ।
232 आयसैरायसं छेद्यम् ।
233 नास्त्यधीमतस्सखा।
234 धर्मेण धार्यते लोकः ।
235 प्रेतमपि धर्माधर्भावनुगच्छत ।