पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
454
अर्थशास्त्र

506 दैन्यान्मरणमुत्तमम् ।
507 आशा लज्जां व्यापोहति ।
508 न मात्रा सह वासः कर्तव्यः ।
509 आत्मा न स्तोतव्यः ।
510 न दिवा स्वप्नं कुर्यात् ।
511 न चासन्नमपि पश्यत्यैश्वर्यान्धः न शृणोतीष्टं
512 स्त्रीणां न भर्तुः परदैवतम् ।
513 तदनुवर्तनमुभयसौख्यम् ।
514 अतिथिमभ्यागतं पूजयेद्यथाविधि !
515 नास्ति हव्यस्य व्याघातः।
516 शत्रुर्मित्रवत्प्रतिभाति ।
517 मृगतृष्णा जलवद्भाति ।
518 दुर्मेधसामसच्छास्त्रं मोहयति ।
519 सत्संगः स्वर्गवासः ।
520 आर्य स्वमिव परं मन्यते ।
521 रूपानुवर्ती गुण. ।
522 यत्र सुखेन वर्तते तदेव स्थानम् ।
523 विश्वासघातिनो न निष्कृतिः ।
524 देवायनं न शोचेत्।।
645 आश्रितदुःखमात्मन इव मन्यते साधुः ।
526 ह्रद्गतमाच्छाद्यान्यद्वत्यनार्यः ।
527 बुद्धिहीनः पिशाचतुल्यः ।
528 असहायः पथि न गच्छेत् ।
529 पुत्रो न स्तोतव्यः ।
530 स्वामी स्तोतव्योऽनुजीविभिः ।