पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
456
अर्थशास्त्र

566 चोरराजपुरुषेभ्यो वित्तं रक्षेत् ।
५५७ दुर्दर्शना हि राजानः प्रजा नाशयन्ति ।
५५८ सुदर्शना हि राजानः प्रजा रञ्जयन्ति ।
५५९ न्याययुक्तं राजानं मातरं मन्यन्ते प्रजाः ।
560 तादृशस्स राजा इह सुखं ततस्स्वर्गमाप्नोति ।
561 अहिंसालक्षणो धर्मः ।
562 स्वशरीरमपि परशरीरं मन्यते साधु ।
५६३ मांसभक्षणमयुक्तं सर्वेषाम् ।
564 न संसारभयं ज्ञानवताम् ।
565 विज्ञानदीपेन संसारभयं निवर्तते ।
566 सर्वमनित्यं भवति ।
567 कृमिशकृन्मूत्रभाजनं शरीरं पुण्यपापजन्महेतुः ।
568 जन्ममरणादिषु दुःखमेव।
569 तपसा स्वर्गमाप्नोति ।
570 क्षमायुक्तस्य तपो विवर्धते ।
571 तस्मात्सर्वेषां कार्यसिद्धिर्भवति

॥ इति चाणक्यसूत्राणि ॥