पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/४९

पुटमेतत् सुपुष्टितम्
22
[१ अधि. १२ अध्या.
विनयाधिकारिकम्

दुर्गेषु वणिजस्संस्था दुर्गान्ते सिद्धतापसाः ।
कर्षकोदास्थिता राष्ट्रे राष्ट्रान्ते व्रजवासिनः ॥
वने वनचरैः[१] कार्याश्श्रमणाटविकादयः ।
परप्रवृत्तिज्ञानार्था: शीघ्राश्चारपरम्परा: ॥
परस्य चैके [२] बोद्धव्याः तादृशैरेव तादृशाः ।
चारसञ्चारिणस्संस्था गूढाश्चागूढसंज्ञिताः ॥
अकृत्यान् कृत्यपक्षीयैः दर्शितान्कार्यहेतुभिः ।
परापसर्पज्ञानार्थे मुख्यानन्तेषु वासयेत् ।।
इति विनयाधिकारिके गूढपुरुषोत्पत्तौ ।
सञ्चारोत्पत्तिः द्वादशोऽध्यायः.

९ प्रक. स्वविषये कुत्याकृत्यपक्षरक्षणम्

 गूढपुरुषप्राणिधिः कृतमहामात्या[३]पसर्प: पौरजानपदानपस र्पयेत् ।
 सत्रिणो द्वन्द्विनस्तीर्थसभाशालापूगजनसमवायेषु विवादं कु र्यु:-- "सर्वगुणसम्पन्नश्चयं राजा श्रूयते । न चास्य कश्चित् गुणो दृश्यते यः पौरजानपदान् दण्डकराभ्यां पीडयाति" इति ।
 तत्र येऽनुभशंसेयुः तानितरस्तं च प्रतिपेधयेत्---"मात्स्यन्यायभिभूताः प्रजा मनं वैवस्वतं राजानं चक्रिरे । धान्यषड्भागं पण्यदशभार्ग हिरण्यं चास्य भागधेयं प्रकल्पयामासुः, तेन


  1. चरा
  2. चते
  3. मात्र,