पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/५०

पुटमेतत् सुपुष्टितम्
९ प्रक.
23
स्वविघये कृत्याकृत्यपक्षरक्षणम्

भृता राजानः प्रजानां योगक्षेमवहाः तेषां किल्बिषमदण्डकरा हरन्ति यो [रन्त्ययो १] ग[१] क्षेमवहाश्र्च प्रजानाम् । तस्मादुञ्छष ङ्भगमारण्यका अपि निवपन्ति-'तस्यैतद्भागधेयं योऽस्मान् गोपायतीति' | इन्द्रय[२]मस्थानमेतत् राजानः प्रत्यक्षहेडप्रसादाः । तानवमन्यमानान् दैवोऽपि दण्ड. स्पृशति । तस्माद्राजानो नावमन्तव्याः" इति क्षुद्रकान्प्रतिषेधयेत् ।   किंवदन्तीं च विद्युः ।।
 ये चास्य धान्यपशुहिरण्यान्याजीवन्ति तैरुपकुर्वन्ति, व्य- सने अभ्युदये वा कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्त्यमि त्रमाटविकं वा प्रतिषेधयन्ति, तेषां मुण्डजटिलव्यञ्जनास्तुष्टा तुष्टत्वं विद्युः ।।   तुष्टान् भूयः [३]पूजयेत् ।।
 अतुष्टान् तुष्टिहेतोस्त्यागेन सान्ना च प्रसादयेत् । परस्प राद्रा भैदयेदेनान् सामन्ताविकतत्कुलीनावरूद्धेभ्यश्च । तथाऽ प्यतुष्यतो दण्डकरसाधनाधिकारेण वा जनपदविद्वेषं ग्राह येत् । विद्दिष्टानुपांशुदण्डेन जनपदकोपेन वा साधयेत् । गुप्तपुत्रदारानाकरकर्मान्तेषु वा वासयेत् परेषामास्पदभयात् ।  क्रुद्धलुब्धभीतावमानिनस्तु परेषां कृत्याः । तेषां कार्ता न्तिकनैमित्तिकमौहूर्तिकव्यञ्जनाः परस्परभिसम्बन्धं अमित्र [४] प्रतिसम्बन्धं वा विद्युः ।।


  1. अयोग,
  2. इन्द्रिय
  3. अर्थमानाभ्या पु
  4. अमित्राटबिक प्र.