१२. प्रक. दूतप्रणिधि:
उद्धृतमन्त्रो दूतप्रणिधि: ।
अमात्यसम्पदोपेतो निस्सृष्टार्थः ।
पादगुणहीनः परिमितार्थः ।
अर्धगुणहीनः शासनहरः ।
सुप्रतिविहितयानवाहनपुरुषपरिवापः प्रतिष्ठेत “शासनमेवं
वाच्य.,[१] परस्स वक्षत्येवं तस्येदं प्रतिवाक्यमेवमतिसन्धातव्यम्”
इत्यधीयानो गच्छेत् । अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गे
गच्छेत् । अनीकस्थानयुद्धप्रतिग्रहापसारभूमीरात्मनः परस्य
चावेक्षेत । दुर्गराष्ट्रप्रमाणं सारवृत्तिगुप्तिच्छिद्राणि चोपलभेत
पराधिष्ठानमनुज्ञातः प्रविशेत् । शासनं च यथोक्तं ब्रूयात् ।
प्राणाबाधेऽपि दृष्टे परस्य वाचि वक्त्रे दृष्टयां च प्रसादं वाक्य
पूजनमिष्टपरिप्रश्नं गुणकथासङ्गमासन्नमासनं सत्कारमिष्टेषु स्म
रणं विश्वासगमनं च लक्षयेत्तुष्टस्य । विपरीतमतुष्टस्य । तं
ब्रूयात्---“दूतमुखा[२] वै राजीनस्त्वं चान्ये च । तस्मादुद्भृते[३]ष्वापि शस्त्रेषु यथोक्तं वक्तारस्तेषामन्तावसायिनो[४] ऽप्यवध्याः ।
किमङगं पुनर्ब्राह्मणः । परस्यैतद्वाक्यमेष दूतधर्म” इति ।
वसेदविसृष्टः[५] प्रपूजया[६] नोसिक्तः । परेषु बलित्वं न