“महादोषमबुद्धबोधनमिति" कौटिल्यः । नवं हि द्रव्यं येन येनार्थजातेनोपदिह्यते तत्तदाचूषति । एवमयं नवबुद्धि र्यद्यदुच्यते तत्तच्छास्त्रोपदेशमिवाभिजानाति । तस्माद्धर्ममर्थे चास्योपदिशेन्नाधर्ममनर्थे च । सत्रिणस्त्वेनं[१] 'तव स्मः' इति वदन्तः पालयेयुः । यौवनोन्सेकात् परस्त्रीषु मनः कुर्वाणं आर्याव्यञ्जनाभि स्स्त्रिभिरमेध्या[२] भिश्शून्यागारेपु रात्रावुद्वैजयेयु: ॥
मद्यकामं योगपानेनोद्रेजयेयुः । |
“अप्रार्थनीयो राजा विपन्न्ने घातस्सम्पन्ने नरकपातः, संक्रो
शः प्रजाभिरेकलोष्टवधश्चेति" । विरागं प्रियमेकपुत्रं वा बध्नियात्।।
बहुपुत्रः प्रत्यन्तमन्यविपयं वा प्रेपयेद्यत्र गर्भः एण्ड्यं[३]
डिमवो[४] वा न भवेत् ।।
आत्मसम्पन्नं सैनापत्ये यौवराज्ये वा स्थापयेत् ।
- बुद्धिमानाहार्यवृद्धिदुर्वृद्धिरिति पुत्रविशेषाः ।
- शिष्यमाणो धर्मार्थावुपलभते चानुतिष्टतेि च बुद्धिमान् ।
- उपलभमानो नानुतिष्ठत्याहार्यबुद्धिः ।
- अपायनित्यो धर्मार्थद्वेषी चेति दुर्बुद्धिः ।।