पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/६५

पुटमेतत् सुपुष्टितम्
१६ प्रक.]
[१ अध, १९ अध्य.
विनयाधिकारिकम्

 चतुर्थे हिरण्यपतिग्रहमध्यक्षांश्च कुर्वीत ।
 पञ्चमे मन्त्रिपरिषदा पत्रसंप्रेषेणेन मन्त्रयेत । चारगु ह्याबोधनीयानि च बुद्धयेत् ।।
 षष्टे स्वैरविहारं मन्त्रं वा सेवेत । सप्तमे हस्त्यश्वर- थायुधीयान् पश्येत् ।।

अष्टमे सेनापतिसखो विक्रमं चिन्तयेत् ।
प्रतिष्टितेsहानि सन्ध्यामुपासीत ।
प्रथमे रात्रिभागे गूढपुरुषान् पश्येत् ।
द्वितीये स्नानभोजनं कुर्वीत स्वाध्यायं च ।
तृतीये तूर्यघोषेण संविष्टः चतुर्थपञ्चमौ शयीत ।
षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रमितिकर्तव्यतां च चिन्तयेत् ।
सप्तमे मन्त्रमध्यासीत । गूढपुरुषांश्च प्रेषयेत् ।
अष्टमे ऋत्विगाचार्यपुरोहितसखः स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत् । सवत्सां धेनुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत् ।।

 आत्मवलानुकूल्येन वा निशार्भागान् प्रतिविभज्य का र्याणि सेवेत ।
 उपस्थानगतः कार्यार्थिनामद्वारसङ्गं कारयेत् । दुर्दर्शो हि राजा कार्यकार्यविषयसमा[१] मन्नैः कार्यते । तेन प्र-


  1. पर्यानमासमा,