पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७०

पुटमेतत् सुपुष्टितम्
१८ प्रक]
43
आत्मरक्षितकम्

 गुप्ते देशे माहानसिकः सर्वमास्वादबाहुल्येन कर्म कारयेत् । 'तद्राजा तथैव प्रतिभुञ्जीत पूर्वमग्नये वयोभ्यश्च बलिं कृत्वा ।
 अग्नेर्ज्वालाधूमनीलता शब्दस्फोटनं च विषयुक्तस्य,-वयसां --विपत्तिश्च,‌अन्नस्योष्मा मयूरग्रीवाभः शैव, आशुक्लि ष्ट्स्यैव वैवर्ण्य सोदकत्वमक्लिन्नत्वं च,--व्यञ्जनानामाशुशुष्कत्वं च क्काथश्यामफेनपटल[१] विच्छिन्नभावो गन्धस्पर्शरसवधश्च,- द्रव्येषु हीनातिरिक्तछायादर्शनं फेनपटलसीमन्तोर्ध्वराजीदर्शनं च,--रसस्य मध्ये नीला राजी,--पयसस्ताम्रा,-- मद्यतो- ययोः काली,-दधश्श्यामा च,--मधुनश्श्वेता,-द्रव्याणामा माद्राणामाशुप्रम्लात[२]त्वमुत्पक्वभावः काथनलिश्यावता च,-- शुष्काणामाशुशातनं वैवर्ण्य च,-कठिनानां मृदुत्वं मृदूनां कठिनत्वं च,--तदभ्याशे क्षुद्रसत्ववधश्च, --आस्तरणप्राव रणानां श्याम[३]मण्डलता तन्तुरोमपक्ष्मशातनं च,-लोहमणि मयानां पाकलोपदेहता[४] स्नेहरागगौरवप्रभाववर्णस्पर्शवधश्चेति विषयुक्तलिङ्गानि ।
 विषप्रदस्य तु शुष्कश्याववक्तूता वाक्सङ्गस्स्वेदो विज्रुम्भण चातिमात्रं वेपथुः प्रस्खलनं वाक्यविप्रेक्षणमावेशः[५] कर्मणि स्वभूमौ चानवस्थानमिति ।
 तस्मादस्य जाङ्गलीविदो भिषजश्वासन्नास्युः।


  1. मण्डल.
  2. म्लान.
  3. ध्यायश्याम.
  4. पङ्कमलोपदेहता,'लोहाना च मणी- ना च मलपङ्कोपदिग्धता' इति कामन्दक.
  5. वेग.