पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/७३

पुटमेतत् सुपुष्टितम्
46
[२ अधि. १ अध्या.
अध्यक्षप्रचारः


 नदीशैलवनगृष्टिदरीसेतुबन्धशाल्मलीशमीक्षीरवृक्षानन्तेषु सी- म्नां स्थापयेत् ।
513  अष्टशतग्राम्या मध्ये स्थानीयं, चतुश्शतग्राम्या द्रोणमुखं, * द्विशतग्राम्या खार्वटिकं,२* दशग्रामीसङ्गहेण सङ्गहण स्थापयेत् ।
521  अन्तेष्वन्तपालदुर्गाणि।

 जनपदद्वाराण्यन्तपालाधिष्ठितानि स्थापयेत् । तेषामन्तराणि

वागुरिकशबरपुळिन्दचण्डालारण्यचरा रक्षेयुः ।
522  ऋत्विगाचार्यपुरोहितश्रोत्रियेभ्यो ब्रह्मदेयान्यदण्डकराण्या- भि रूपदायकानि प्रयच्छेत् ।
 अध्यक्षसङ्ख्यायकादिभ्यो गोपस्थानीकानीक स्थचिकित्स- काश्वदमकजधारिके भ्यश्च विक्रयाधानवर्जम् ।


 1 वृक्षान्तरेषु सीमा.
 * " नगर राजधानी, पांसुप्राकारनिबद्धखेट क्षुल्लकप्राकारवेष्टित खर्वट.
अर्धगव्यूतततीयान्तनामान्तररहित मण्टपम्

 पत्तन शकटैगम्यं वाटिकैर्नौभिरेव च ।
 नौभिरेव तु यद्गम्य पट्टणं तत्प्रचक्षते ।।

 द्रोणमुखं जलनिर्गमप्रवेश पट्टणामित्यर्थ." इति रायपसेणीसूत्रव्याख्याने--प २०६.
 “नगराणि करवर्जितानि निगमवणिजां स्थानानि । जनपदा देशा. पुरवराणि नगरे, कदेशभूतानि द्रोणमुखानि जलस्थलपथोपेतानि खेटानि धूलीमाकारोपेतानि खर्बटानि कुनगराणि, मण्डपानि दूरस्थलसीमान्तराणि. सदाहा. स्थापिन्य पत्तनानि जलस्थल पथयोरन्यतरयुक्ता नि" इति प्रश्नव्याकरणसूलव्याख्याने --५ ३०६.
 2 कार्वाटिक, 3 राण्यभि, 4 स्थानिनानीक, 5 जङ्गालके.