ततस्सर्वाधिकरणानां करणीयं सिद्धं शेषमायव्ययौ नीवी
मुपस्थानं प्रचारचरित्रसंस्थानं च निबन्धन प्रयच्छेत् । उत्त
ममध्यमावरेषु च कर्मसु तज्जातिकमध्यक्षं कुर्यात् ।
समुदायिकेष्ववक्लूप्तिकं व्ययमुपहत्य राजाऽनुतप्येत ।
सहग्राहिणः प्रतिभुवः कर्मोपजीविनः पुत्रा भ्रातरो भार्या
दुहितरो भृत्याश्चास्य कर्मच्छेदं वहेयुः ।
त्रिशतं चतुःपञ्चाशच्चाहोरात्राणां कर्म संवत्सरः । तमा-
पाढीपर्यवसानभूनं पूर्ण वा दद्यात् । करणाधिष्ठितमधिमा-
सकं कुर्यात् ।
अपसर्वाधिष्ठितं च प्रचारं प्रचारचरित्रसंस्थानान्यनुपलभ-
मानो हि प्रकृतस्समुदयमज्ञानेन परिहापयति----उत्थानक्लेशा-
सहत्वादालस्येन, शब्दादिष्विन्द्रियार्थेषु प्रमादेन, सङ्क्रोशा
धर्मानर्थभीरुर्भयेन, कार्यार्थिष्वनुग्रहबुद्धिः कामेन, हिंसाबुद्धिः
कोपेन, विद्याद्रव्यवकल्लभाषाश्रयादर्पेण, तुलामानतर्कगणिका-
न्तरोपधानाल्लोमेन ।
तेषां आनुपूर्व्या “यावानर्थोपघात. तावानेकोत्तरो दण्डः"
इति मानवाः ।
* सर्वत्राष्टगुण " इति पाराशराः ।
"दशगुणाः" इति बार्हस्पसाः ।।
"विंशतिगुणः" इत्यौशनसाः ॥
“यथाऽपराधम्" इति कौटिल्यः॥
पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८२
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५ प्रक.
68
अक्षपटले नागनिक्याधिकार