पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
64
२ आधि. - अध्या
अध्यक्षप्रचार


 गाणनिक्यान्यापाढीमागच्छेयुः । आगतानां समुद्रपुरतभाण्ड नीवीकानामेकत्र सम्भाषावरोधं कारयेत् । आयब्ययनीवी नामग्राणि श्रुत्वा नीवीमवहारयेत् । यच्चाग्रायादायस्यान्तरवर्णे नीव्या वर्धेन, व्ययम्य वा यत्परिहापयेत्, तदष्टगणमध्यक्ष दापयेत् । विपर्यये तमेव प्रतिस्यात् ॥
 यथाकालमनागतानागपुस्तनीविकानां वा देयदशबन्धो दण्ड । कार्मिके चोपस्थिते कारणिकत्यापतिबन्धतः पूर्वस्साहस- दण्डः । विपर्यये कार्मिकस्य द्विगुणः ।।
7311  प्रचारसमं महामात्रास्समग्राः श्रावयेयु. । अविषममन्त्रः पृथग्भूतो मिथ्यावादी चैषामुत्तमदण्ड दद्यात् ।।
129  अकृताहोरूपहर मासमाकाङ्क्षेत । मासादूर्ध्वं मासद्विशतोत्तरं दण्ड दद्यात् ।।
  अल्पशेषलेख्यनीविक पञ्चरात्रमाकाङ्क्षेत । तनः परं कोशपूर्व महोरूपहरं धर्मव्यवहारचरित्रसंस्थानसङ्कलननिर्वर्वर्तनानुमानचार- प्रयोगैरवेक्षेत । दिवसपञ्चरात्रपक्षमासचातुर्मास्यसंवत्सरेश्व प्रति समानयेत् । व्युष्टदेशकालसुखोत्पत्त्यनुवृत्तिप्रमाणदायकदापक निवन्धकप्रतिग्राहकैश्चायं समानयेत् । व्युष्टदेशकालमुखलाभ- कारणदेययोगपरिमाणाज्ञापकोद्धार कविधातकप्रतिग्राहकैश्च व्य- यं समानयेत् । व्युष्टदेशकाल सुखानुवर्तनरूपलक्षणपरिमाणनिक्षे. पभाजनगोपायकैश्च नीवी समानयेत् ।।


1.त्रा. 2 वीक. 3 विधान,