पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८ प्रक.]
71
शासनाधिकार


श्रुत्वा निश्चितार्थ' लेखं विदध्यात् । देशैश्च वंशनामधेयो- पचारमीश्वरस्य, देशनामधेयोपचारमनीश्वरस्य ।

जाति कुलं स्थानवयश्श्रुतानि 812
कर्मर्द्धिशीलान्यथ देशकालौ।
यौनानुबन्धं च समीक्ष्य कार्ये
लेख विदध्यात्पुरुषानुरूपम् ।।

अर्थक्रमः, सम्बन्धः, परिपूर्णता, माधुर्यमौदार्य, स्पष्टत्वमि- ति लेखसम्पत् ।
 तत्र यथावदनुपूर्वक्रियाप्रधानस्यार्थस्य पूर्वमभिनिवेश इत्य- र्थस्य क्रमः ॥
 प्रस्तुतस्यार्थस्यानुपरोधादुत्तरस्य विधानमासमाप्तरिति स- म्बन्धः ॥

अर्थपदाक्षराणामन्यूनातिरिक्तता हेतूदाहरणदृष्टान्तैरर्थोप-
वर्णनाऽश्रान्तपदेति परिपूर्णता ॥
मुखोपनीतचार्वर्थशब्दाभिधानं माधुर्यम् ।।
अग्राम्यशब्दाभिधानमौदार्यम् ।।
प्रतीतशब्दप्रयोगस्पष्टत्वमिति ॥
अकारादयो वर्णाः त्रिषष्टिः ॥ 8110


1 निश्चित्यार्थ समीक्ष्यकावे. " निश्चितार्थ" इत्यस्योपरि = इत्येव रखा वि- धाय तदर्थ " " समीक्ष्य कार्य” इति लिखित मातृकायाम् . देशेश्वर्यवश. " इत्यर्थार्थस्यानुपक्रम इति मातृकायाम् . इत्यर्थक्रम . पदतेति.