पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
78
[२ अधि. ११ अध्या.
अध्यक्षप्रचार


 प्रवाळकं आलकन्दकं, वैवर्णिकं च रक्तं पद्मरागं च करट गर्भिका बजमिति ॥
 चन्दन--सतन रक्त भूमिगन्धिगोशीर्षकं कालताम्र म- त्स्यगन्धि, हरिचन्दनं शुकपत्रवर्णमाम्रगन्धि , तार्णसं च; ग्रा मेरुकं रक्तं रक्तकाळं वा बस्तमूत्रगन्धि, दैवसभेयं रक्तं पद्मग . न्धि, जापकं च; जोङ्गकं रक्तं रक्तकाल का स्निग्धं तौरूपं च । मालेयकं पाण्डुरक्त चन्दनं काळ रूक्षमगरुकालं रक्तं रक्त- काळ वा; कालपर्वतकम नवद्यवर्ण वा; कोशाकार पर्वतक काळ काळचित्रं वा; शीतोदकीयं पद्माभं काळस्निग्धं वा; ना गपर्वतक रूक्षं शैवलवर्णं वा; शाकल कपिलमिति ।
 लघुस्निग्धमश्यानं सार्पस्नेहलेपि गन्धसुखं त्वगनुसार्यनुल्बण- पविगग्युष्णसहं दाहग्राहि सुखस्पर्शनमिति चन्दनगुणाः ।
 अगरु----जोङ्गकं काळं काळचित्रं मण्डलचित्रं वा; श्याम दोङ्गक पारसमुद्रकं चित्ररूपाशीरगन्धि नवमालिकागन्धि वेति । गुरु स्निग्धं पेशलगन्धि निर्हारि अग्निसहमसंप्लुतधूमं समग न्धं विमर्दसहमित्यगरुगणाः ।।
 तैलपर्णिक-- अशोकग्रामिक मांसवर्ण पद्मगन्धि; जोङ्गकं रक्तपीतकमुत्पलगन्धि गोमूत्रगन्धि वा, ग्रामरुक स्निग्ध गोमूत्र- गन्धि ; सौवर्णकुड्यकं रक्तपीतं मातुलुङ्गगन्धि, पूर्णकद्रीपकं पद्मगन्धि नवनीतगन्धि बेति; भद्रश्रीयं पारलौहित्यक जातीवर्ण;


1 करटागामणिका. 2.रूप, 3लेयं 4.काल गोमूत्रगन्धिकाल.
5.पर्वतमन, 5.कौशागार. 6.चति.