पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२९ प्रक.]
79
कोगवश्यरत्नपरीक्षा


आन्तरप'त्यमुशीरवर्ण : उभय क्ग्ष्टगान्धि चेति कालयकः स्वर्ण- भूमिजस्निग्धपीतक; औत्तरपर्वतको रक्षपीलक इति साराः।
 पिण्डकाथधूमसहमविरागि योगानुविधावि च । चन्दनाग रुवच्च तेषां गुणाः।
 कान्तनावकं प्रैयकं चोतरपर्वतकं चर्भ ।
 कान्तनावकं मयूरग्रीवाभं; प्रैयकं नीलपीतश्वेतलेखि बिन्दु चित्रं । तदुभयमष्टाङ्गलायामम् ।
 बिसी महाबिसी च द्वादशग्रामीये।
 अव्यक्तरूपा दुहिलितिका चित्रा वा बिसी । परुषा श्वेतमा- या महाविसी द्वादशाङ्गुलायाममुभयम् ।
 श्यामिका कालिका कदली चन्द्रोत्तरा शाकुला चारोह'जाः। 922
 कपिला विन्दुचित्रा वा श्यामिका, कालिका कपिला कपोत. वर्णा वा । तदुभयमष्टाङ्गलायानम् । परुषा कदळी हस्तायता ।
सैव चन्द्रचित्रा चन्द्रोत्तरा। कदलीत्रिभागा शाकुला को- ठमण्डलचित्रा कुतकर्णिकाजिनचित्रा चेति ।
 सामूरं चीनसी सामूली च बाहवेया' ।
 षट्त्रिंशदङ्गुलमञ्जनवर्णं सामूरं; चीनसी रक्तकाळी पाण्डुका- लीवा, सामूली गोधूमवर्णेति ।
 सातिना नलतूला वृत्तपुच्छा च औद्राः ।


• 1 रव. 2.नीलपीत श्वेतं लेखा
3. रूप हिलिका- बहुतारोमोपेता, इति ध्याख्या. 4. रोट,