पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 81

शेषे हृते सप्ततिभिस्त्रिमिश्रैर्नरैर्विशुद्धं थयैकसङ्ख्याम् ॥ ११९(१/२)॥

दृष्टास्सप्तत्रिंशत्कपित्थफलराशयो वने पथिकैः ।
सप्तदशापोह्य हते व्येकात्यांशकप्रमाणं किम् ॥ १२०(१/२)॥

दृषुषराशिमपहाय च सप्त पश्चा
इतोऽष्टभिः पुनरपि प्रविहाय तस्मात् ।
त्रीणि त्रयोदशभिरुद्दलिते विशुद्धः
पान्थैर्वने गणक मे कथयैकराशिम् ॥ १२१(१/२)॥

द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिरेकः कपित्थफलराशिः ।
भक्तो रूपाग्रस्तत्प्रमाणमाचक्ष्व गणितज्ञ ॥ १२२(१/२)॥

द्वाभ्यामेकस्त्रिभिदं च चतुर्भिर्भाजिते त्रयः ।
चत्वारि पञ्चभिश्शेषः को राशिर्वद मे प्रिय ॥ १२३(१/२)॥

द्वाभ्यामेकस्त्रिभिश्शुद्धश्चतुर्भािजिते त्रयः ।
चत्वारि पञ्चभिश्शेषः को राशिर्वद मे प्रिय ॥ १२४(१/२)॥

द्वाभ्यां निरग्र एकाग्रस्त्रिभिर्नाग्रो विभाजितः ।
चतुर्भिः पशुभर्भक्तो रूपाग्रो राशिरेष कः ॥ १२५(१/२)॥

द्वाभ्यामेकस्त्रिभिश्चूडश्चतुर्भिर्भाजिते त्रयः ।
निरग्रः पञ्चभिर्भक्तः को राशिः कथयाधुना ॥ १२६(१/२)॥

दृष्टा जम्बूफलानां पथि पथिकजनै राशयस्तत्र राशी
डों यश्न तौ नवानां त्रय इति पुनरेकादशानां विभक्ताः ।
पञ्चग्रास्ते यतीनां चतुरधिकतराः पञ्च ते सप्तकानां
कुडीकारार्थविन्मे कथय गणक सञ्चिन्त्य राशिप्रमाणम्॥ १२७(१/२)॥